Click on words to see what they mean.

वैशंपायन उवाच ।त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः ।महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥ १ ॥
ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम् ।विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ॥ २ ॥
रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः ।परिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः ॥ ३ ॥
ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम् ।वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ॥ ४ ॥
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा ।तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् ॥ ५ ॥
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत ।निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ॥ ६ ॥
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः ।हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥ ७ ॥
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः ।तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ॥ ८ ॥
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे ।वितत्य शरजालेन प्रजहास धनंजयः ॥ ९ ॥
ततस्ते रथघोषेण खुरनेमिस्वनेन च ।पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् ॥ १० ॥
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् ।शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥ ११ ॥
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः ।मुमुचुः शरवर्षाणि धनंजयवधैषिणः ॥ १२ ॥
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् ।चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥ १३ ॥
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा ।युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ॥ १४ ॥
तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे ।अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥ १५ ॥
केतुवर्मण्यभिहते धृतवर्मा महारथः ।रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ॥ १६ ॥
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् ।गुडाकेशो महातेजा बालस्य धृतवर्मणः ॥ १७ ॥
न संदधानं ददृशे नाददानं च तं तदा ।किरन्तमेव स शरान्ददृशे पाकशासनिः ॥ १८ ॥
स तु तं पूजयामास धृतवर्माणमाहवे ।मनसा स मुहूर्तं वै रणे समभिहर्षयन् ॥ १९ ॥
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव ।प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ॥ २० ॥
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा ।धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ॥ २१ ॥
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् ।मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ॥ २२ ॥
धनुषः पततस्तस्य सव्यसाचिकराद्विभो ।इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ॥ २३ ॥
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव ।जहास सस्वनं हासं धृतवर्मा महाहवे ॥ २४ ॥
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् ।धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ॥ २५ ॥
ततो हलहलाशब्दो दिवस्पृगभवत्तदा ।नानाविधानां भूतानां तत्कर्मातीव शंसताम् ॥ २६ ॥
ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् ।जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ॥ २७ ॥
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः ।परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः ॥ २८ ॥
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च ।महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ॥ २९ ॥
तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयः ।शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥ ३० ॥
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः ।दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः ॥ ३१ ॥
त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् ।तव स्म किंकराः सर्वे सर्वे च वशगास्तव ॥ ३२ ॥
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् ।करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥ ३३ ॥
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा ।जीवितं रक्षत नृपाः शासनं गृह्यतामिति ॥ ३४ ॥
« »