Click on words to see what they mean.

वैशंपायन उवाच ।दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः ।विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥ १ ॥
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः ।धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥ २ ॥
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना ।उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥ ३ ॥
स राजा धर्मजो राजन्दीक्षितो विबभौ तदा ।हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥ ४ ॥
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः ।विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥ ५ ॥
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते ।बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ॥ ६ ॥
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः ।विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥ ७ ॥
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् ।तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥ ८ ॥
आकुमारं तदा राजन्नागमत्तत्पुरं विभो ।द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् ॥ ९ ॥
तेषामन्योन्यसंमर्दादूष्मेव समजायत ।दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥ १० ॥
ततः शब्दो महाराज दशाशाः प्रतिपूरयन् ।बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम् ॥ ११ ॥
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् ।यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥ १२ ॥
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः ।स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥ १३ ॥
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् ।नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥ १४ ॥
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः ।स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ।निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥ १५ ॥
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ ।शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ॥ १६ ॥
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि ।प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥ १७ ॥
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः ।अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ॥ १८ ॥
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा ।चचार स महाराज यथादेशं स सत्तम ॥ १९ ॥
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह ।तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥ २० ॥
स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम ।ससारोत्तरतः पूर्वं तन्निबोध महीपते ॥ २१ ॥
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः ।शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥ २२ ॥
तत्र संकलना नास्ति राज्ञामयुतशस्तदा ।येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥ २३ ॥
किराता विकृता राजन्बहवोऽसिधनुर्धराः ।म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ॥ २४ ॥
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः ।समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥ २५ ॥
एवं युद्धानि वृत्तानि तत्र तत्र महीपते ।अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ॥ २६ ॥
यानि तूभयतो राजन्प्रतप्तानि महान्ति च ।तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥ २७ ॥
« »