Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः ।व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ॥ १ ॥
यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः ।दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ॥ २ ॥
व्यास उवाच ।अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च ।विधानं यद्यथाकालं तत्कर्तारो न संशयः ॥ ३ ॥
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति ।संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ॥ ४ ॥
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः ।मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥ ५ ॥
तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् ।स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥ ६ ॥
वैशंपायन उवाच ।इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः ।चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ।संभाराश्चैव राजेन्द्र सर्वे संकल्पिताभवन् ॥ ७ ॥
स संभारान्समाहृत्य नृपो धर्मात्मजस्तदा ।न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥ ८ ॥
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् ।यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥ ९ ॥
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव ।तत्र योग्यं भवेत्किंचित्तद्रौक्मं क्रियतामिति ॥ १० ॥
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् ।सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ॥ ११ ॥
युधिष्ठिर उवाच ।अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् ।चरिष्यति यथाकामं तत्र वै संविधीयताम् ॥ १२ ॥
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् ।कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥ १३ ॥
वैशंपायन उवाच ।इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् ।भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ॥ १४ ॥
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति ।शक्तः स हि महीं जेतुं निवातकवचान्तकः ॥ १५ ॥
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा ।दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ॥ १६ ॥
स हि धर्मार्थकुशलः सर्वविद्याविशारदः ।यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥ १७ ॥
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः ।अभिमन्योः पिता वीरः स एनमनुयास्यति ॥ १८ ॥
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः ।समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ॥ १९ ॥
सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् ।कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥ २० ॥
तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः ।चकार फल्गुनं चापि संदिदेश हयं प्रति ॥ २१ ॥
युधिष्ठिर उवाच ।एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् ।त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥ २२ ॥
ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः ।तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ॥ २३ ॥
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः ।पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥ २४ ॥
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् ।भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥ २५ ॥
कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् ।अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥ २६ ॥
« »