Click on words to see what they mean.

वैशंपायन उवाच ।एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् ।उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥ १ ॥
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः ।यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ॥ २ ॥
रौक्मिणेयेन सहितो युयुधानेन चैव ह ।चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ॥ ३ ॥
सारणेन च वीरेण निशठेनोल्मुकेन च ।बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥ ४ ॥
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः ।समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥ ५ ॥
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः ।प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥ ६ ॥
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः ।विदुरेण महातेजास्तथैव च युयुत्सुना ॥ ७ ॥
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय ।जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥ ८ ॥
स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः ।शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥ ९ ॥
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः ।आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥ १० ॥
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा ।युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥ ११ ॥
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् ।क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ॥ १२ ॥
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् ।सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥ १३ ॥
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा ।प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥ १४ ॥
वासुदेव महाबाहो सुप्रजा देवकी त्वया ।त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥ १५ ॥
यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो ।अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥ १६ ॥
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन ।अहं संजीवयिष्यामि मृतं जातमिति प्रभो ॥ १७ ॥
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ ।उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥ १८ ॥
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा ।सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ॥ १९ ॥
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च ।पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥ २० ॥
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च ।प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥ २१ ॥
उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन ।अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ॥ २२ ॥
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा ।मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥ २३ ॥
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति ।अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ॥ २४ ॥
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा ।कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥ २५ ॥
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन ।कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ॥ २६ ॥
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना ।उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥ २७ ॥
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः ।स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥ २८ ॥
एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः ।भूमौ निपतितां चैनां सान्त्वयामास भारत ॥ २९ ॥
« »