Click on words to see what they mean.

जनमेजय उवाच ।श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना ।अश्वमेधं प्रति तदा किं नृपः प्रचकार ह ॥ १ ॥
रत्नं च यन्मरुत्तेन निहितं पृथिवीतले ।तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ॥ २ ॥
वैशंपायन उवाच ।श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः ।भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ।अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ॥ ३ ॥
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना ।कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ॥ ४ ॥
तपोवृद्धेन महता सुहृदां भूतिमिच्छता ।गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ॥ ५ ॥
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता ।संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ॥ ६ ॥
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् ।अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ॥ ७ ॥
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः ।तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः ॥ ८ ॥
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि ।तदानयामहे सर्वे कथं वा भीम मन्यसे ॥ ९ ॥
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह ।भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥ १० ॥
रोचते मे महाबाहो यदिदं भाषितं त्वया ।व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ॥ ११ ॥
यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो ।कृतमेव महाराज भवेदिति मतिर्मम ॥ १२ ॥
ते वयं प्रणिपातेन गिरीशस्य महात्मनः ।तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ॥ १३ ॥
तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् ।प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥ १४ ॥
रक्षन्ते ये च तद्द्रव्यं किंकरा रौद्रदर्शनाः ।ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥ १५ ॥
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत ।प्रीतो धर्मात्मजो राजा बभूवातीव भारत ।अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा ॥ १६ ॥
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् ।सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥ १७ ॥
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च ।अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥ १८ ॥
मोदकैः पायसेनाथ मांसापूपैस्तथैव च ।आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ॥ १९ ॥
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ ।प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥ २० ॥
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च ।ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥ २१ ॥
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् ।धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् ॥ २२ ॥
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् ।संपूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः ॥ २३ ॥
« »