Click on words to see what they mean.

उत्तङ्क उवाच ।अभिजानामि जगतः कर्तारं त्वां जनार्दन ।नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ॥ १ ॥
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत ।विनिवृत्तश्च मे कोप इति विद्धि परंतप ॥ २ ॥
यदि त्वनुग्रहं कंचित्त्वत्तोऽर्होऽहं जनार्दन ।द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय ॥ ३ ॥
वैशंपायन उवाच ।ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः ।शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः ॥ ४ ॥
स ददर्श महात्मानं विश्वरूपं महाभुजम् ।विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् ॥ ५ ॥
उत्तङ्क उवाच ।विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् ।पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ॥ ६ ॥
द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् ।भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥ ७ ॥
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् ।पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥ ८ ॥
वैशंपायन उवाच ।तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय ।वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् ॥ ९ ॥
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते ।यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥ १० ॥
तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय ।अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ॥ ११ ॥
उत्तङ्क उवाच ।अवश्यकरणीयं वै यद्येतन्मन्यसे विभो ।तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥ १२ ॥
वैशंपायन उवाच ।ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः ।एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥ १३ ॥
ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया ।तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥ १४ ॥
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् ।अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ॥ १५ ॥
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् ।तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ॥ १६ ॥
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव ।एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह ।कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् ॥ १७ ॥
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत ।चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ॥ १८ ॥
पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् ।न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥ १९ ॥
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना ।श्वभिः सह महाराज तत्रैवान्तरधीयत ॥ २० ॥
उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः ।मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥ २१ ॥
अथ तेनैव मार्गेण शङ्खचक्रगदाधरः ।आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् ॥ २२ ॥
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम ।सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥ २३ ॥
इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः ।उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥ २४ ॥
यादृशेनेह रूपेण योग्यं दातुं वृतेन वै ।तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे ॥ २५ ॥
मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः ।उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥ २६ ॥
स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत् ।अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ॥ २७ ॥
अमृतं देयमित्येव मयोक्तः स शचीपतिः ।स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ॥ २८ ॥
यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते ।भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने ॥ २९ ॥
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै ।प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो ।प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव ॥ ३० ॥
स तथा समयं कृत्वा तेन रूपेण वासवः ।उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ।चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥ ३१ ॥
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् ।तोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् ॥ ३२ ॥
येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति ।तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥ ३३ ॥
रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन ।उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ॥ ३४ ॥
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह ।अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत ॥ ३५ ॥
« »