Click on words to see what they mean.

उत्तङ्क उवाच ।ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् ।श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ॥ १ ॥
वासुदेव उवाच ।तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् ।तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज ॥ २ ॥
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् ।स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः ॥ ३ ॥
तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् ।गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥ ४ ॥
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च ।अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥ ५ ॥
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने ।दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् ॥ ६ ॥
असच्च सदसच्चैव यद्विश्वं सदसतः परम् ।ततः परं नास्ति चैव देवदेवात्सनातनात् ॥ ७ ॥
ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह ।यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे ॥ ८ ॥
होतारमपि हव्यं च विद्धि मां भृगुनन्दन ।अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् ॥ ९ ॥
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे ।प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ।स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ॥ १० ॥
विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम ।मानसं दयितं विप्र सर्वभूतदयात्मकम् ॥ ११ ॥
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः ।बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम ॥ १२ ॥
धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च ।तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ॥ १३ ॥
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः ।भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ॥ १४ ॥
अधर्मे वर्तमानानां सर्वेषामहमप्युत ।धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ।तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥ १५ ॥
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन ।तदाहं देववत्सर्वमाचरामि न संशयः ॥ १६ ॥
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन ।तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ॥ १७ ॥
नागयोनौ यदा चैव तदा वर्तामि नागवत् ।यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् ॥ १८ ॥
मानुष्ये वर्तमाने तु कृपणं याचिता मया ।न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् ॥ १९ ॥
भयं च महदुद्दिश्य त्रासिताः कुरवो मया ।क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः ॥ २० ॥
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा ।धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ॥ २१ ॥
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम ।एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ २२ ॥
« »