Click on words to see what they mean.

वैशंपायन उवाच ।तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः ।परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः ॥ १ ॥
पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः ।आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः ॥ २ ॥
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् ।संजहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ॥ ३ ॥
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः ।बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥ ४ ॥
वायुर्वेगेन महता रथस्य पुरतो ववौ ।कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ॥ ५ ॥
ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च ।दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ॥ ६ ॥
स प्रयातो महाबाहुः समेषु मरुधन्वसु ।ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ॥ ७ ॥
स तं संपूज्य तेजस्वी मुनिं पृथुललोचनः ।पूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥ ८ ॥
स पृष्टः कुशलं तेन संपूज्य मधुसूदनम् ।उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥ ९ ॥
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् ।कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥ १० ॥
अभिसंधाय तान्वीरानुपावृत्तोऽसि केशव ।संबन्धिनः सुदयितान्सततं वृष्णिपुंगव ॥ ११ ॥
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः ।लोकेषु विहरिष्यन्ति त्वया सह परंतप ॥ १२ ॥
स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् ।कौरवेषु प्रशान्तेषु त्वया नाथेन माधव ॥ १३ ॥
या मे संभावना तात त्वयि नित्यमवर्तत ।अपि सा सफला कृष्ण कृता ते भरतान्प्रति ॥ १४ ॥
वासुदेव उवाच ।कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति ।न चाशक्यन्त संधातुं तेऽधर्मरुचयो मया ॥ १५ ॥
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः ।न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ।महर्षे विदितं नूनं सर्वमेतत्तवानघ ॥ १६ ॥
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च ।ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥ १७ ॥
पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः ।धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥ १८ ॥
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः ।उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ॥ १९ ॥
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः ।संबन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥ २० ॥
न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः ।तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ॥ २१ ॥
त्वया हि शक्तेन सता मिथ्याचारेण माधव ।उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ॥ २२ ॥
वासुदेव उवाच ।शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन ।गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव ॥ २३ ॥
श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै ।न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ॥ २४ ॥
न च ते तपसो नाशमिच्छामि जपतां वर ।तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ॥ २५ ॥
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम ।दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ॥ २६ ॥
« »