Click on words to see what they mean.

ब्रह्मोवाच ।एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि ।अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ॥ १ ॥
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः ।गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ॥ २ ॥
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् ।हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् ॥ ३ ॥
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः ।धारयीत सदा दण्डं बैल्वं पालाशमेव वा ॥ ४ ॥
क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा ।सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह ॥ ५ ॥
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा ।यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ॥ ६ ॥
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् ।भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ॥ ७ ॥
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः ।न संसरति जातीषु परमं स्थानमाश्रितः ॥ ८ ॥
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् ।ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् ॥ ९ ॥
चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् ।अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ॥ १० ॥
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् ।फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ॥ ११ ॥
प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात् ।प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ॥ १२ ॥
आमूलफलभिक्षाभिरर्चेदतिथिमागतम् ।यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ॥ १३ ॥
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः ।अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ॥ १४ ॥
दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् ।जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ॥ १५ ॥
त्यक्तदेहः सदा दक्षो वननित्यः समाहितः ।एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ॥ १६ ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः ।य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ॥ १७ ॥
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् ।सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ॥ १८ ॥
अयाचितमसंकॢप्तमुपपन्नं यदृच्छया ।जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ॥ १९ ॥
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ।धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत् ॥ २० ॥
ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथंचन ।यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा ॥ २१ ॥
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन ।दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ॥ २२ ॥
नाददीत परस्वानि न गृह्णीयादयाचितम् ।न किंचिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ॥ २३ ॥
मृदमापस्तथाश्मानं पत्रपुष्पफलानि च ।असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान् ॥ २४ ॥
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् ।न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः ।श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् ॥ २५ ॥
मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् ।कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ॥ २६ ॥
वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित् ।लाभे न च प्रहृष्येत नालाभे विमना भवेत् ॥ २७ ॥
मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः ।लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ।अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः ॥ २८ ॥
शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च ।नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा ।यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ॥ २९ ॥
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् ।न चान्यमनुभिक्षेत भिक्षमाणः कथंचन ॥ ३० ॥
न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत् ।शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा ।प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ॥ ३१ ॥
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् ।अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् ॥ ३२ ॥
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् ।संचयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ॥ ३३ ॥
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् ।उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ॥ ३४ ॥
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च ।अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ॥ ३५ ॥
अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः ।अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ॥ ३६ ॥
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च ।लोकसंग्रहधर्मं च नैव कुर्यान्न कारयेत् ॥ ३७ ॥
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् ।समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ ३८ ॥
परं नोद्वेजयेत्कंचिन्न च कस्यचिदुद्विजेत् ।विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥ ३९ ॥
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् ।वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ॥ ४० ॥
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् ।न प्रत्यक्षं परोक्षं वा किंचिद्दुष्टं समाचरेत् ॥ ४१ ॥
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः ।क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः ॥ ४२ ॥
निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च ।निर्ममो निरहंकारो निर्योगक्षेम एव च ॥ ४३ ॥
निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः ।सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः ॥ ४४ ॥
अपाणिपादपृष्ठं तमशिरस्कमनूदरम् ।प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् ॥ ४५ ॥
अगन्धरसमस्पर्शमरूपाशब्दमेव च ।अत्वगस्थ्यथ वामज्जममांसमपि चैव ह ॥ ४६ ॥
निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा ।सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥ ४७ ॥
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः ।वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः ।यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता ॥ ४८ ॥
तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः ।गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ॥ ४९ ॥
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् ।यथैनमवमन्येरन्परे सततमेव हि ॥ ५० ॥
तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् ।यो ह्येवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते ॥ ५१ ॥
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च ।मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा ॥ ५२ ॥
सर्वमेतत्प्रसंख्याय सम्यक्संत्यज्य निर्मलः ।ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ॥ ५३ ॥
एतदेवान्तवेलायां परिसंख्याय तत्त्ववित् ।ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ॥ ५४ ॥
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा ।क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् ॥ ५५ ॥
« »