Click on words to see what they mean.

युधिष्ठिर उवाच ।शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् ।द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ॥ १ ॥
व्यास उवाच ।आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः ।तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः ॥ २ ॥
प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः ।क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः ॥ ३ ॥
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् ।तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ॥ ४ ॥
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् ।विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ॥ ५ ॥
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च ।सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ॥ ६ ॥
दानधर्मरताः सन्तः सततं प्रियवादिनः ।तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ॥ ७ ॥
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् ।नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ॥ ८ ॥
तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् ।अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा ॥ ९ ॥
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा ।नियतो वर्तयामास प्रजाहितचिकीर्षया ॥ १० ॥
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः ।प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ॥ ११ ॥
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् ।तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ॥ १२ ॥
स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः ।आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च ॥ १३ ॥
न चैनं परिहर्तुं तेऽशक्नुवन्परिसंक्षये ।सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ॥ १४ ॥
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः ।ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ॥ १५ ॥
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् ।एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः ॥ १६ ॥
तस्य कारंधमः पुत्रस्त्रेतायुगमुखेऽभवत् ।इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ॥ १७ ॥
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा ।स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ॥ १८ ॥
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् ।यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः ॥ १९ ॥
तेजसादित्यसदृशः क्षमया पृथिवीसमः ।बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ॥ २० ॥
कर्मणा मनसा वाचा दमेन प्रशमेन च ।मनांस्याराधयामास प्रजानां स महीपतिः ॥ २१ ॥
य ईजे हयमेधानां शतेन विधिवत्प्रभुः ।याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ॥ २२ ॥
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया ।मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः ॥ २३ ॥
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः ।स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत ।कारयामास शुभ्राणि भाजनानि सहस्रशः ॥ २४ ॥
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे ।काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ॥ २५ ॥
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च ।चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते ॥ २६ ॥
तस्यैव च समीपे स यज्ञवाटो बभूव ह ।ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः ।मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ॥ २७ ॥
« »