Click on words to see what they mean.

ब्रह्मोवाच ।नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः ।अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा ॥ १ ॥
अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः ।अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः ॥ २ ॥
यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः ।यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते ॥ ३ ॥
संहत्य कुर्वते यात्रां सहिताः संघचारिणः ।संघातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ॥ ४ ॥
उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् ।वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः ॥ ५ ॥
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् ।अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः ॥ ६ ॥
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् ।अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः ॥ ७ ॥
उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् ।अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः ॥ ८ ॥
सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका ।न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते ॥ ९ ॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ॥ १० ॥
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम् ।इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ॥ ११ ॥
दूरादपि हि दृश्यन्ते सहिताः संघचारिणः ।तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम ॥ १२ ॥
दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत् ।अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः ॥ १३ ॥
आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः ।परितापोऽध्वगानां च राजसो गुण उच्यते ॥ १४ ॥
प्राकाश्यं सत्त्वमादित्ये संतापो राजसो गुणः ।उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ॥ १५ ॥
एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः ।पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा ॥ १६ ॥
स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः ।राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः ॥ १७ ॥
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते ।मासार्धमासवर्षाणि ऋतवः संधयस्तथा ॥ १८ ॥
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते ।त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः ॥ १९ ॥
भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि ।प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ॥ २० ॥
यत्किंचिदिह वै लोके सर्वमेष्वेव तत्त्रिषु ।त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु ।सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः ॥ २१ ॥
तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः ।प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ॥ २२ ॥
अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् ।सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् ।ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः ॥ २३ ॥
अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः ।विमुक्तदेहः प्रविभागतत्त्ववित्स मुच्यते सर्वगुणैर्निरामयः ॥ २४ ॥
« »