Click on words to see what they mean.

ब्रह्मोवाच ।तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् ।नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥ १ ॥
एकादशपरिक्षेपं मनो व्याकरणात्मकम् ।बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥ २ ॥
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः ।प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः ॥ ३ ॥
तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते ।अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः ॥ ४ ॥
अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः ।अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः ॥ ५ ॥
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ॥ ६ ॥
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते ।नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते ॥ ७ ॥
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम् ।अधर्मलक्षणं चैव नियतं पापकर्मसु ॥ ८ ॥
प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् ।प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् ॥ ९ ॥
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता ।सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम् ॥ १० ॥
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः ।समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे ॥ ११ ॥
संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः ।स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ॥ १२ ॥
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता ।निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥ १३ ॥
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता ।अमैत्री विकृतो भावो अश्रद्धा मूढभावना ॥ १४ ॥
अनार्जवमसंज्ञत्वं कर्म पापमचेतना ।गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः ॥ १५ ॥
सर्व एते गुणा विप्रास्तामसाः संप्रकीर्तिताः ।ये चान्ये नियता भावा लोकेऽस्मिन्मोहसंज्ञिताः ॥ १६ ॥
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः ।परिवादकथा नित्यं देवब्राह्मणवैदिकाः ॥ १७ ॥
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा ।मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥ १८ ॥
वृथारम्भाश्च ये केचिद्वृथादानानि यानि च ।वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥ १९ ॥
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता ।अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥ २० ॥
एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः ।मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ॥ २१ ॥
तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् ।अवाङ्निरयभावाय तिर्यङ्निरयगामिनः ॥ २२ ॥
स्थावराणि च भूतानि पशवो वाहनानि च ।क्रव्यादा दन्दशूकाश्च कृमिकीटविहंगमाः ॥ २३ ॥
अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः ।उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥ २४ ॥
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः ।अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥ २५ ॥
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् ।यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः ॥ २६ ॥
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु ।स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥ २७ ॥
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् ।स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥ २८ ॥
अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु ।पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥ २९ ॥
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः ।वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥ ३० ॥
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः ।स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥ ३१ ॥
अभिषङ्गस्तु कामेषु महामोह इति स्मृतः ।ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥ ३२ ॥
तमो मोहो महामोहस्तामिस्रः क्रोधसंज्ञितः ।मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ॥ ३३ ॥
भावतो गुणतश्चैव योनितश्चैव तत्त्वतः ।सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ॥ ३४ ॥
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति ।अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् ॥ ३५ ॥
तमोगुणा वो बहुधा प्रकीर्तिता यथावदुक्तं च तमः परावरम् ।नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते ॥ ३६ ॥
« »