Click on words to see what they mean.

अर्जुन उवाच ।ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि ।भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥ १ ॥
वासुदेव उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ २ ॥
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् ।शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परंतप ॥ ३ ॥
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः ।याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे ॥ ४ ॥
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह ।कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥ ५ ॥
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः ।प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥ ६ ॥
शिष्य उवाच ।कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् ।कुतो जातानि भूतानि स्थावराणि चराणि च ॥ ७ ॥
केन जीवन्ति भूतानि तेषामायुः किमात्मकम् ।किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ।के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ॥ ८ ॥
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम ।वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ॥ ९ ॥
वासुदेव उवाच ।तस्मै संप्रतिपन्नाय यथावत्परिपृच्छते ।शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ।छायाभूताय दान्ताय यतये ब्रह्मचारिणे ॥ १० ॥
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः ।गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥ ११ ॥
ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् ।वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ॥ १२ ॥
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् ।सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् ॥ १३ ॥
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते ।बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ॥ १४ ॥
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् ।बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ॥ १५ ॥
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च ।मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ॥ १६ ॥
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः ।ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥ १७ ॥
तं प्रणम्य महात्मानं सुखासीनं महर्षयः ।पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् ॥ १८ ॥
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् ।के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ॥ १९ ॥
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति ।प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥ २० ॥
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः ।तत्तेऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम् ॥ २१ ॥
ब्रह्मोवाच ।सत्याद्भूतानि जातानि स्थावराणि चराणि च ।तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ॥ २२ ॥
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा ।सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥ २३ ॥
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः ।सत्याद्भूतानि जातानि भूतं सत्यमयं महत् ॥ २४ ॥
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः ।अतीतक्रोधसंतापा नियता धर्मसेतवः ॥ २५ ॥
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् ।तानहं संप्रवक्ष्यामि शाश्वतान्लोकभावनान् ॥ २६ ॥
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् ।धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥ २७ ॥
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः ।नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥ २८ ॥
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम् ।निबोधत महाभागा निखिलेन परं पदम् ॥ २९ ॥
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् ।गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् ।ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥ ३० ॥
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः ।नोपैति यावदध्यात्मं तावदेतान्न पश्यति ।तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ॥ ३१ ॥
फलमूलानिलभुजां मुनीनां वसतां वने ।वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ॥ ३२ ॥
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते ।श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ॥ ३३ ॥
इत्येते देवयाना वः पन्थानः परिकीर्तिताः ।सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ॥ ३४ ॥
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः ।कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥ ३५ ॥
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना ।विषयस्थानि सर्वाणि वर्तमानानि भागशः ॥ ३६ ॥
महानात्मा तथाव्यक्तमहंकारस्तथैव च ।इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥ ३७ ॥
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः ।चतुर्विंशतिरेषा वस्तत्त्वानां संप्रकीर्तिता ॥ ३८ ॥
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ ।स धीरः सर्वभूतेषु न मोहमधिगच्छति ॥ ३९ ॥
तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलाश्च देवताः ।विधूतपाप्मा प्रविमुच्य बन्धनं स सर्वलोकानमलान्समश्नुते ॥ ४० ॥
« »