Click on words to see what they mean.

ब्राह्मण उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ १ ॥
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे ।विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ २ ॥
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् ।आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ ३ ॥
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो ।वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ ४ ॥
इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना ।मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥ ५ ॥
तमासीनं ध्यायमानं राजानममितौजसम् ।कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥ ६ ॥
समाश्वास्य ततो राजा व्यपेते कश्मले तदा ।ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ ७ ॥
पितृपैतामहे राज्ये वश्ये जनपदे सति ।विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥ ८ ॥
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया ।नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ ९ ॥
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् ।ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ १० ॥
तया न विषयं मन्ये सर्वो वा विषयो मम ।आत्मापि चायं न मम सर्वा वा पृथिवी मम ।उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ ११ ॥
पितृपैतामहे राज्ये वश्ये जनपदे सति ।ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥ १२ ॥
कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव ।नावैषि विषयं येन सर्वो वा विषयस्तव ॥ १३ ॥
जनक उवाच ।अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु ।नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥ १४ ॥
कस्येदमिति कस्य स्वमिति वेदवचस्तथा ।नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ १५ ॥
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया ।शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥ १६ ॥
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि ।तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ १७ ॥
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ १८ ॥
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा ।तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ १९ ॥
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये ।तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ २० ॥
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि ।तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ २१ ॥
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे ।मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ २२ ॥
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह ।इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥ २३ ॥
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् ।त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ २४ ॥
त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः ।सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ २५ ॥
« »