Click on words to see what they mean.

ब्राह्मण उवाच ।संकल्पदंशमशकं शोकहर्षहिमातपम् ।मोहान्धकारतिमिरं लोभव्यालसरीसृपम् ॥ १ ॥
विषयैकात्ययाध्वानं कामक्रोधविरोधकम् ।तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥ २ ॥
ब्राह्मण्युवाच ।क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् ॥ ३ ॥
ब्राह्मण उवाच ।न तदस्ति पृथग्भावे किंचिदन्यत्ततः समम् ।न तदस्त्यपृथग्भावे किंचिद्दूरतरं ततः ॥ ४ ॥
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् ।नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ ५ ॥
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः ।न च बिभ्यति केषांचित्तेभ्यो बिभ्यति के च न ॥ ६ ॥
तस्मिन्वने सप्त महाद्रुमाश्च फलानि सप्तातिथयश्च सप्त ।सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम् ॥ ७ ॥
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च ।सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ८ ॥
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ९ ॥
चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च ।सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १० ॥
शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च ।सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ११ ॥
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च ।सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १२ ॥
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च ।विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥ १३ ॥
एको ह्यग्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति ।तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः ॥ १४ ॥
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः ।अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ १५ ॥
प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् ।ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ॥ १६ ॥
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः ।ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ १७ ॥
सप्त स्त्रियस्तत्र वसन्ति सद्यो अवाङ्मुखा भानुमत्यो जनित्र्यः ।ऊर्ध्वं रसानां ददते प्रजाभ्यः सर्वान्यथा सर्वमनित्यतां च ॥ १८ ॥
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च ।सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥ १९ ॥
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी ।एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ २० ॥
गिरयः पर्वताश्चैव सन्ति तत्र समासतः ।नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसंभवम् ॥ २१ ॥
नदीनां संगमस्तत्र वैतानः समुपह्वरे ।स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥ २२ ॥
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः ।आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥ २३ ॥
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।तदरण्यमभिप्रेत्य यथाधीरमजायत ॥ २४ ॥
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः ।विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥ २५ ॥
« »