Click on words to see what they mean.

ब्राह्मण उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ॥ १ ॥
प्राणापानावुदानश्च समानो व्यान एव च ।पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः ॥ २ ॥
ब्राह्मण्युवाच ।स्वभावात्सप्त होतार इति ते पूर्विका मतिः ।यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥ ३ ॥
ब्राह्मण उवाच ।प्राणेन संभृतो वायुरपानो जायते ततः ।अपाने संभृतो वायुस्ततो व्यानः प्रवर्तते ॥ ४ ॥
व्यानेन संभृतो वायुस्ततोदानः प्रवर्तते ।उदाने संभृतो वायुः समानः संप्रवर्तते ॥ ५ ॥
तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् ।यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ ६ ॥
ब्रह्मोवाच ।यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।यस्मिन्प्रचीर्णे च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः ॥ ७ ॥
प्राण उवाच ।मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ८ ॥
ब्राह्मण उवाच ।प्राणः प्रलीयत ततः पुनश्च प्रचचार ह ।समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ॥ ९ ॥
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् ।न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव ।प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥ १० ॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ११ ॥
व्यानश्च तमुदानश्च भाषमाणमथोचतुः ।अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ १२ ॥
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् ।श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १३ ॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १४ ॥
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह ।प्राणापानावुदानश्च समानश्च तमब्रुवन् ।न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ॥ १५ ॥
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् ।श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १६ ॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १७ ॥
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह ।प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् ।समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ १८ ॥
समानः प्रचचाराथ उदानस्तमुवाच ह ।श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १९ ॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ २० ॥
ततः प्रालीयतोदानः पुनश्च प्रचचार ह ।प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् ।उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ २१ ॥
ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः ।सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ।सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः ॥ २२ ॥
एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः ।एक एव ममैवात्मा बहुधाप्युपचीयते ॥ २३ ॥
परस्परस्य सुहृदो भावयन्तः परस्परम् ।स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ २४ ॥
« »