Click on words to see what they mean.

ब्राह्मण उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।सुभगे सप्तहोतॄणां विधानमिह यादृशम् ॥ १ ॥
घ्राणं चक्षुश्च जिह्वा च त्वक्श्रोत्रं चैव पञ्चमम् ।मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ २ ॥
सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् ।एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने ॥ ३ ॥
ब्राह्मण्युवाच ।सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः ।कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥ ४ ॥
ब्राह्मण उवाच ।गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता ।परस्परगुणानेते न विजानन्ति कर्हिचित् ॥ ५ ॥
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ ६ ॥
घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ॥ ७ ॥
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ ८ ॥
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा ।न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ ९ ॥
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च ।न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ १० ॥
घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं बुद्धिरेव च ।संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ ११ ॥
घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मन एव च ।न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ॥ १२ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ १३ ॥
मन उवाच ।न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते ।रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ॥ १४ ॥
न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन ।प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ १५ ॥
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः ।इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ १६ ॥
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः ।गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ १७ ॥
इन्द्रियाण्यूचुः ।एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् ।ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ॥ १८ ॥
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् ।भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा ॥ १९ ॥
अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च ।यदि संकल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ २० ॥
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा ।घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ २१ ॥
श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया ।त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ २२ ॥
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् ।भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ॥ २३ ॥
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति ।ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ २४ ॥
विषयानेवमस्माभिर्दर्शितानभिमन्यसे ।अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥ २५ ॥
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् ।अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ २६ ॥
बहूनपि हि संकल्पान्मत्वा स्वप्नानुपास्य च ।बुभुक्षया पीड्यमानो विषयानेव धावसि ॥ २७ ॥
अगारमद्वारमिव प्रविश्य संकल्पभोगो विषयानविन्दन् ।प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निर्ज्वलितो यथैव ॥ २८ ॥
कामं तु नः स्वेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः ।अस्मानृते नास्ति तवोपलब्धिस्त्वामप्यृतेऽस्मान्न भजेत हर्षः ॥ २९ ॥
« »