Click on words to see what they mean.

ब्राह्मण उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।निबोध दशहोतॄणां विधानमिह यादृशम् ॥ १ ॥
सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते ।रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ २ ॥
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते ।ततश्चाहवनीयस्तु तस्मिन्संक्षिप्यते हविः ॥ ३ ॥
ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते ।रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥ ४ ॥
ब्राह्मण्युवाच ।कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् ।मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥ ५ ॥
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता ।समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ॥ ६ ॥
ब्राह्मण उवाच ।तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् ।तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ॥ ७ ॥
प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि ।तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ ८ ॥
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् ।आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ॥ ९ ॥
मन इत्येव भगवांस्तदा प्राह सरस्वतीम् ।अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ १० ॥
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम ।स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥ ११ ॥
यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा ।तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ १२ ॥
यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने ।तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥ १३ ॥
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति ।प्रेर्यमाणा महाभागे विना प्राणमपानती ।प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ १४ ॥
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः ।तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ॥ १५ ॥
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते ।तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ॥ १६ ॥
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी ।सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ १७ ॥
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते ।एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥ १८ ॥
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया ।किं नु पूर्वं ततो देवी व्याजहार सरस्वती ॥ १९ ॥
प्राणेन या संभवते शरीरे प्राणादपानं प्रतिपद्यते च ।उदानभूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति ॥ २० ॥
ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प चापि ।तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टा ॥ २१ ॥
« »