Click on words to see what they mean.

जनमेजय उवाच ।विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम ।राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ ॥ १ ॥
वैशंपायन उवाच ।विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते ।राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ ॥ २ ॥
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव ।तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ॥ ३ ॥
शैलेषु रमणीयेषु पल्वलेषु नदीषु च ।चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥ ४ ॥
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ ।प्रविश्य तां सभां रम्यां विजह्राते च भारत ॥ ५ ॥
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव ।कथायोगे कथायोगे कथयामासतुस्तदा ॥ ६ ॥
ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा ।प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥ ७ ॥
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः ।निश्चयज्ञः स पार्थाय कथयामास केशवः ॥ ८ ॥
पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः ।कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ॥ ९ ॥
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः ।अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥ १० ॥
ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह ।सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥ ११ ॥
विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप ।त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह ॥ १२ ॥
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः ।भीमसेनप्रभावेन यमयोश्च नरोत्तम ॥ १३ ॥
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् ।धर्मेण निहतः संख्ये स च राजा सुयोधनः ॥ १४ ॥
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः ।धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥ १५ ॥
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः ।भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥ १६ ॥
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव ।किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ॥ १७ ॥
यत्र धर्मसुतो राजा यत्र भीमो महाबलः ।यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥ १८ ॥
तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत ।रमणीयेषु पुण्येषु सहितस्य त्वयानघ ॥ १९ ॥
कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः ।बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान् ॥ २० ॥
सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति ।रोचतां गमनं मह्यं तवापि पुरुषर्षभ ॥ २१ ॥
उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः ।स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते ॥ २२ ॥
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः ।तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना ॥ २३ ॥
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि ।सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥ २४ ॥
तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन ।अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥ २५ ॥
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते ।कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति ॥ २६ ॥
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया ।ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथंचन ॥ २७ ॥
प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन ।धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥ २८ ॥
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः ।स्थिता समुद्रवसना सशैलवनकानना ।चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ॥ २९ ॥
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम् ।उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः ।स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥ ३० ॥
तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् ।आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥ ३१ ॥
इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे ।प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरूणामधिपो महामतिः ॥ ३२ ॥
प्रयोजनं चापि निवासकारणे न विद्यते मे त्वदृते महाभुज ।स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य ह ॥ ३३ ॥
इतीदमुक्तं स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः ।तथेति कृच्छ्रादिव वाचमीरयज्जनार्दनं संप्रतिपूज्य पार्थिव ॥ ३४ ॥
« »