Click on words to see what they mean.

इन्द्र उवाच ।एवमेतद्ब्रह्मबलं गरीयो न ब्रह्मतः किंचिदन्यद्गरीयः ।आविक्षितस्य तु बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम् ॥ १ ॥
धृतराष्ट्र प्रहितो गच्छ मरुत्तं संवर्तेन सहितं तं वदस्व ।बृहस्पतिं त्वमुपशिक्षस्व राजन्वज्रं वा ते प्रहरिष्यामि घोरम् ॥ २ ॥
व्यास उवाच ।ततो गत्वा धृतराष्ट्रो नरेन्द्रं प्रोवाचेदं वचनं वासवस्य ।गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र ॥ ३ ॥
ऐन्द्रं वाक्यं शृणु मे राजसिंह यत्प्राह लोकाधिपतिर्महात्मा ।बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम् ।वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा ॥ ४ ॥
मरुत्त उवाच ।त्वं चैवैतद्वेत्थ पुरंदरश्च विश्वेदेवा वसवश्चाश्विनौ च ।मित्रद्रोहे निष्कृतिर्वै यथैव नास्तीति लोकेषु सदैव वादः ॥ ५ ॥
बृहस्पतिर्याजयिता महेन्द्रं देवश्रेष्ठं वज्रभृतां वरिष्ठम् ।संवर्तो मां याजयिताद्य राजन्न ते वाक्यं तस्य वा रोचयामि ॥ ६ ॥
गन्धर्व उवाच ।घोरो नादः श्रूयते वासवस्य नभस्तले गर्जतो राजसिंह ।व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः ॥ ७ ॥
व्यास उवाच ।इत्येवमुक्तो धृतराष्ट्रेण राजा श्रुत्वा नादं नदतो वासवस्य ।तपोनित्यं धर्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम् ॥ ८ ॥
मरुत्त उवाच ।इममश्मानं प्लवमानमारादध्वा दूरं तेन न दृश्यतेऽद्य ।प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य ॥ ९ ॥
अयमायाति वै वज्री दिशो विद्योतयन्दश ।अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ॥ १० ॥
संवर्त उवाच ।भयं शक्राद्व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत्सुघोरम् ।संस्तम्भिन्या विद्यया क्षिप्रमेव मा भैस्त्वमस्माद्भव चापि प्रतीतः ॥ ११ ॥
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप ।सर्वेषामेव देवानां क्षपितान्यायुधानि मे ॥ १२ ॥
दिशो वज्रं व्रजतां वायुरेतु वर्षं भूत्वा निपततु काननेषु ।आपः प्लवन्त्वन्तरिक्षे वृथा च सौदामिनी दृश्यतां मा बिभस्त्वम् ॥ १३ ॥
अथो वह्निस्त्रातु वा सर्वतस्ते कामं वर्षं वर्षतु वासवो वा ।वज्रं तथा स्थापयतां च वायुर्महाघोरं प्लवमानं जलौघैः ॥ १४ ॥
मरुत्त उवाच ।घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन ।आत्मा हि मे प्रव्यथते मुहुर्मुहुर्न मे स्वास्थ्यं जायते चाद्य विप्र ॥ १५ ॥
संवर्त उवाच ।वज्रादुग्राद्व्येतु भयं तवाद्य वातो भूत्वा हन्मि नरेन्द्र वज्रम् ।भयं त्यक्त्वा वरमन्यं वृणीष्व कं ते कामं तपसा साधयामि ॥ १६ ॥
मरुत्त उवाच ।इन्द्रः साक्षात्सहसाभ्येतु विप्र हविर्यज्ञे प्रतिगृह्णातु चैव ।स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः सुतं सोमं प्रतिगृह्णन्तु चैव ॥ १७ ॥
संवर्त उवाच ।अयमिन्द्रो हरिभिरायाति राजन्देवैः सर्वैः सहितः सोमपीथी ।मन्त्राहूतो यज्ञमिमं मयाद्य पश्यस्वैनं मन्त्रविस्रस्तकायम् ॥ १८ ॥
व्यास उवाच ।ततो देवैः सहितो देवराजो रथे युक्त्वा तान्हरीन्वाजिमुख्यान् ।आयाद्यज्ञमधि राज्ञः पिपासुराविक्षितस्याप्रमेयस्य सोमम् ॥ १९ ॥
तमायान्तं सहितं देवसंघैः प्रत्युद्ययौ सपुरोधा मरुत्तः ।चक्रे पूजां देवराजाय चाग्र्यां यथाशास्त्रं विधिवत्प्रीयमाणः ॥ २० ॥
संवर्त उवाच ।स्वागतं ते पुरुहूतेह विद्वन्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र ।शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुतमुद्यतं मया ॥ २१ ॥
मरुत्त उवाच ।शिवेन मां पश्य नमश्च तेऽस्तु प्राप्तो यज्ञः सफलं जीवितं मे ।अयं यज्ञं कुरुते मे सुरेन्द्र बृहस्पतेरवरो जन्मना यः ॥ २२ ॥
इन्द्र उवाच ।जानामि ते गुरुमेनं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम् ।यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः ॥ २३ ॥
संवर्त उवाच ।यदि प्रीतस्त्वमसि वै देवराज तस्मात्स्वयं शाधि यज्ञे विधानम् ।स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र जानात्वयं सर्वलोकश्च देव ॥ २४ ॥
व्यास उवाच ।एवमुक्तस्त्वाङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान् ।सभाः क्रियन्तामावसथाश्च मुख्याः सहस्रशश्चित्रभौमाः समृद्धाः ॥ २५ ॥
कॢप्तस्थूणाः कुरुतारोहणानि गन्धर्वाणामप्सरसां च शीघ्रम् ।येषु नृत्येरन्नप्सरसः सहस्रशः स्वर्गोद्देशः क्रियतां यज्ञवाटः ॥ २६ ॥
इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः शक्रवाक्यान्नरेन्द्र ।ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन्पूजयानो मरुत्तम् ॥ २७ ॥
एष त्वयाहमिह राजन्समेत्य ये चाप्यन्ये तव पूर्वे नरेन्द्राः ।सर्वाश्चान्या देवताः प्रीयमाणा हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ॥ २८ ॥
आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं विराजन् ।नीलं चोक्षाणं मेध्यमभ्यालभन्तां चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः ॥ २९ ॥
ततो यज्ञो ववृधे तस्य राज्ञो यत्र देवाः स्वयमन्नानि जह्रुः ।यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूद्धरिमान्देवराजः ॥ ३० ॥
ततः संवर्तश्चित्यगतो महात्मा यथा वह्निः प्रज्वलितो द्वितीयः ।हवींष्युच्चैराह्वयन्देवसंघाञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ॥ ३१ ॥
ततः पीत्वा बलभित्सोममग्र्यं ये चाप्यन्ये सोमपा वै दिवौकसः ।सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः ॥ ३२ ॥
ततो राजा जातरूपस्य राशीन्पदे पदे कारयामास हृष्टः ।द्विजातिभ्यो विसृजन्भूरि वित्तं रराज वित्तेश इवारिहन्ता ॥ ३३ ॥
ततो वित्तं विविधं संनिधाय यथोत्साहं कारयित्वा च कोशम् ।अनुज्ञातो गुरुणा संनिवृत्य शशास गामखिलां सागरान्ताम् ॥ ३४ ॥
एवंगुणः संबभूवेह राजा यस्य क्रतौ तत्सुवर्णं प्रभूतम् ।तत्त्वं समादाय नरेन्द्र वित्तं यजस्व देवांस्तर्पयानो विधानैः ॥ ३५ ॥
वैशंपायन उवाच ।ततो राजा पाण्डवो हृष्टरूपः श्रुत्वा वाक्यं सत्यवत्याः सुतस्य ।मनश्चक्रे तेन वित्तेन यष्टुं ततोऽमात्यैर्मन्त्रयामास भूयः ॥ ३६ ॥
« »