Click on words to see what they mean.

वैशंपायन उवाच ।कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः ।पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥ १ ॥
उत्तीर्य च महीपालो बाष्पव्याकुललोचनः ।पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ॥ २ ॥
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः ।मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ॥ ३ ॥
तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः ।ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ॥ ४ ॥
तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् ।भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् ॥ ५ ॥
राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः ।वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् ॥ ६ ॥
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् ।क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया ॥ ७ ॥
तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर ।न शोचितव्यं पश्यामि त्वया धर्मभृतां वर ॥ ८ ॥
शोचितव्यं मया चैव गान्धार्या च विशां पते ।पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा ॥ ९ ॥
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः ।वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ॥ १० ॥
उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः ।दुर्योधनापराधेन कुलं ते विनशिष्यति ॥ ११ ॥
स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च ।वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ॥ १२ ॥
कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित् ।द्यूतसंपातमप्येषामप्रमत्तो निवारय ॥ १३ ॥
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् ।स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ॥ १४ ॥
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् ।मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ॥ १५ ॥
समं सर्वेषु भूतेषु वर्तमानं नराधिप ।अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन ॥ १६ ॥
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि ।दुर्योधनमहं पापमन्ववर्तं वृथामतिः ॥ १७ ॥
अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम् ।फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ॥ १८ ॥
वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप ।न शोचितव्यं भवता पश्यामीह जनाधिप ॥ १९ ॥
« »