Click on words to see what they mean.

युधिष्ठिर उवाच ।द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते ।अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥ १ ॥
भीष्म उवाच ।अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः ।वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥ २ ॥
युधिष्ठिर उवाच ।यदिदं तप इत्याहुरुपवासं पृथग्जनाः ।तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् ॥ ३ ॥
भीष्म उवाच ।मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः ।आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ॥ ४ ॥
त्यागस्यापि च संपत्तिः शिष्यते तप उत्तमम् ।सदोपवासी च भवेद्ब्रह्मचारी तथैव च ॥ ५ ॥
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् ।कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत ॥ ६ ॥
अमृताशी सदा च स्यात्पवित्री च सदा भवेत् ।ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ॥ ७ ॥
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः ।अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् ॥ ८ ॥
युधिष्ठिर उवाच ।कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव ।विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ॥ ९ ॥
भीष्म उवाच ।अन्तरा सायमाशं च प्रातराशं तथैव च ।सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ॥ १० ॥
भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह ।ऋतवादी सदा च स्याद्दानशीलश्च मानवः ॥ ११ ॥
अभक्षयन्वृथा मांसममांसाशी भवत्युत ।दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् ॥ १२ ॥
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा ।अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥ १३ ॥
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः ।अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥ १४ ॥
देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह ।अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥ १५ ॥
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः ।उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप ॥ १६ ॥
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते ।रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ १७ ॥
« »