Click on words to see what they mean.

युधिष्ठिर उवाच ।कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह ।द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥ १ ॥
भीष्म उवाच ।ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् ।दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् ॥ २ ॥
देवताः पूजयन्तीह दैवेनैवेह तेजसा ।उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ॥ ३ ॥
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः ।कुलशीलवयोरूपैर्विद्ययाभिजनेन च ॥ ४ ॥
एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः ।अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥ ५ ॥
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः ।ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥ ६ ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ॥ ७ ॥
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ।अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ॥ ८ ॥
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ।अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥ ९ ॥
श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च ।परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ।कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥ १० ॥
एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान् ।शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥ ११ ॥
षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति ।पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ॥ १२ ॥
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥ १३ ॥
असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम् ।सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥ १४ ॥
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथंचन ।तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत् ॥ १५ ॥
तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः ।यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥ १६ ॥
यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति ।तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् ॥ १७ ॥
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः ।ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥ १८ ॥
वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि ।पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ॥ १९ ॥
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः ॥ २० ॥
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः ।ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ।वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥ २१ ॥
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः ॥ २२ ॥
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः ॥ २३ ॥
अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः ।सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ।एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ॥ २४ ॥
इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः ।यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः ॥ २५ ॥
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ।ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ॥ २६ ॥
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च ।अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥ २७ ॥
उपपन्नो गुरुकुले सत्यवादी सहस्रदः ।अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च ॥ २८ ॥
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत ।ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ॥ २९ ॥
क्रोशादर्धतृतीयात्तु पावयेदेक एव हि ।ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः ॥ ३० ॥
अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् ।ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥ ३१ ॥
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः ।न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ॥ ३२ ॥
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् ।स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् ॥ ३३ ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति ॥ ३४ ॥
यश्च श्राद्धे कुरुते संगतानि न देवयानेन पथा स याति ।स वै मुक्तः पिप्पलं बन्धनाद्वा स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः ॥ ३५ ॥
तस्मान्मित्रं श्राद्धकृन्नाद्रियेत दद्यान्मित्रेभ्यः संग्रहार्थं धनानि ।यं मन्यते नैव शत्रुं न मित्रं तं मध्यस्थं भोजयेद्धव्यकव्ये ॥ ३६ ॥
यथोषरे बीजमुप्तं न रोहेन्न चास्योप्ता प्राप्नुयाद्बीजभागम् ।एवं श्राद्धं भुक्तमनर्हमाणैर्न चेह नामुत्र फलं ददाति ॥ ३७ ॥
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥ ३८ ॥
संभोजनी नाम पिशाचदक्षिणा सा नैव देवान्न पितॄनुपैति ।इहैव सा भ्राम्यति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ॥ ३९ ॥
यथाग्नौ शान्ते घृतमाजुहोति तन्नैव देवान्न पितॄनुपैति ।तथा दत्तं नर्तने गायने च यां चानृचे दक्षिणामावृणोति ॥ ४० ॥
उभौ हिनस्ति न भुनक्ति चैषा या चानृचे दक्षिणा दीयते वै ।आघातनी गर्हितैषा पतन्ती तेषां प्रेतान्पातयेद्देवयानात् ॥ ४१ ॥
ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर ।निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥ ४२ ॥
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च ।तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ ४३ ॥
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत ।तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः ॥ ४४ ॥
ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् ।ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् ॥ ४५ ॥
वैखानसानां वचनमृषीणां श्रूयते नृप ।दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ।प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् ॥ ४६ ॥
यः सहस्रं सहस्राणां भोजयेदनृचां नरः ।एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥ ४७ ॥
« »