Click on words to see what they mean.

युधिष्ठिर उवाच ।उक्ताः पितामहेनेह सुवर्णस्य विधानतः ।विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ॥ १ ॥
यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् ।स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ॥ २ ॥
उक्तः स देवतानां हि अवध्य इति पार्थिव ।न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः ॥ ३ ॥
एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह ।कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ॥ ४ ॥
भीष्म उवाच ।विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा ।कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ॥ ५ ॥
न देवतानां काचिद्धि समर्था जातवेदसः ।एकापि शक्ता तं गर्भं संधारयितुमोजसा ॥ ६ ॥
षण्णां तासां ततः प्रीतः पावको गर्भधारणात् ।स्वेन तेजोविसर्गेण वीर्येण परमेण च ॥ ७ ॥
तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः ।षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो ॥ ८ ॥
ततस्ता वर्धमानस्य कुमारस्य महात्मनः ।तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ॥ ९ ॥
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते ।समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ ॥ १० ॥
ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् ।पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः ॥ ११ ॥
स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः ।दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥ १२ ॥
ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् ।जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः ॥ १३ ॥
अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे ।स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत् ॥ १४ ॥
ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः ।रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः ॥ १५ ॥
अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ ।आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥ १६ ॥
पृथग्भूतानि चान्यानि यानि देवार्पणानि वै ।आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् ।ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ॥ १७ ॥
षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् ।पीनांसं द्वादशभुजं पावकादित्यवर्चसम् ॥ १८ ॥
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः ।लेभिरे परमं हर्षं मेनिरे चासुरं हतम् ॥ १९ ॥
ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् ।क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ॥ २० ॥
सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् ।राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ॥ २१ ॥
कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम् ।चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ॥ २२ ॥
गवां माता च गा देवी ददौ शतसहस्रशः ।छागमग्निर्गुणोपेतमिला पुष्पफलं बहु ॥ २३ ॥
सुधन्वा शकटं चैव रथं चामितकूबरम् ।वरुणो वारुणान्दिव्यान्भुजंगान्प्रददौ शुभान् ।सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः ॥ २४ ॥
श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च ।राक्षसासुरसंघाश्च येऽनुजग्मुस्तमीश्वरम् ॥ २५ ॥
वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः ।उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ॥ २६ ॥
सेनापत्येन तं देवाः पूजयित्वा गुहालयम् ।शशंसुर्विप्रकारं तं तस्मै तारककारितम् ॥ २७ ॥
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः ।जघानामोघया शक्त्या दानवं तारकं गुहः ॥ २८ ॥
तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे ।सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ॥ २९ ॥
स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् ।ईशो गोप्ता च देवानां प्रियकृच्छंकरस्य च ॥ ३० ॥
हिरण्यमूर्तिर्भगवानेष एव च पावकिः ।सदा कुमारो देवानां सेनापत्यमवाप्तवान् ॥ ३१ ॥
तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् ।सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम् ॥ ३२ ॥
एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा ।तस्मात्सुवर्णदानाय प्रयतस्व नराधिप ॥ ३३ ॥
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः ।त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ॥ ३४ ॥
« »