Click on words to see what they mean.

वसिष्ठ उवाच ।अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् ।पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥ १ ॥
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् ।ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ॥ २ ॥
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः ।यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥ ३ ॥
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः ।ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥ ४ ॥
लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः ।ओंकारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ॥ ५ ॥
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च ।भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ।जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो ॥ ६ ॥
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः ।आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ॥ ७ ॥
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः ।स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥ ८ ॥
तस्य शुक्रस्य निष्पन्दात्पांसून्संगृह्य भूमितः ।प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥ ९ ॥
ततस्तस्मिन्संप्रवृत्ते सत्रे ज्वलितपावके ।ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ॥ १० ॥
स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः ।आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ॥ ११ ॥
ततः संजनयामास भूतग्रामं स वीर्यवान् ।ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥ १२ ॥
तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् ।सगुणस्तेजसो नित्यं तमस्याकाशमेव च ॥ १३ ॥
सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः ।शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥ १४ ॥
पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः ।भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ॥ १५ ॥
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् ।सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥ १६ ॥
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् ।अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् ।अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥ १७ ॥
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः ।वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः ।अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ॥ १८ ॥
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे ।ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ॥ १९ ॥
एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः ।ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् ॥ २० ॥
यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः ।अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ॥ २१ ॥
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् ।तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥ २२ ॥
अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः ।उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥ २३ ॥
आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् ।सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् ॥ २४ ॥
ततोऽब्रवीन्महादेवो वरुणः परमात्मकः ।मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥ २५ ॥
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः ।इति जानीत खगमा मम यज्ञफलं हि तत् ॥ २६ ॥
अग्निरुवाच ।मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च ।ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ॥ २७ ॥
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः ।ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ॥ २८ ॥
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह ।यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥ २९ ॥
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै ।कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥ ३० ॥
वयं च भगवन्सर्वे जगच्च सचराचरम् ।तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ।वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥ ३१ ॥
निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः ।जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् ॥ ३२ ॥
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत् ।पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ॥ ३३ ॥
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् ।आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः ।भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ ॥ ३४ ॥
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः ।सर्वं संतानमेतेषामिदमित्युपधारय ॥ ३५ ॥
भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः ।च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥ ३६ ॥
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ।भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥ ३७ ॥
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः ।बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च ॥ ३८ ॥
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः ।एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥ ३९ ॥
ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः ।अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥ ४० ॥
कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा ।भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ॥ ४१ ॥
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् ।प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥ ४२ ॥
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः ।भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥ ४३ ॥
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः ।कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ॥ ४४ ॥
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः ।तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः ॥ ४५ ॥
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः ।इमे नः संतरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥ ४६ ॥
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः ।त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् ॥ ४७ ॥
तथैव वंशकर्तारस्तव तेजोविवर्धनाः ।भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा ॥ ४८ ॥
देवपक्षधराः सौम्याः प्राजापत्या महर्षयः ।आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ॥ ४९ ॥
सर्वे हि वयमेते च तवैव प्रसवः प्रभो ।देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥ ५० ॥
मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः ।अपत्यानीति संप्रेक्ष्य क्षमयाम पितामह ॥ ५१ ॥
ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः ।स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥ ५२ ॥
एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः ।देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥ ५३ ॥
अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः ।अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ॥ ५४ ॥
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् ।जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥ ५५ ॥
कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् ।हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥ ५६ ॥
तस्मादग्निपराः सर्वा देवता इति शुश्रुम ।ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् ॥ ५७ ॥
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः ।देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥ ५८ ॥
तस्य चातमसो लोका गच्छतः परमां गतिम् ।स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ॥ ५९ ॥
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् ।ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ॥ ६० ॥
ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते ।मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥ ६१ ॥
ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः ।ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥ ६२ ॥
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् ।इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ॥ ६३ ॥
ततः संपद्यतेऽन्येषु लोकेष्वप्रतिमः सदा ।अनावृतगतिश्चैव कामचारी भवत्युत ॥ ६४ ॥
न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत् ।सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् ॥ ६५ ॥
यस्तु संजनयित्वाग्निमादित्योदयनं प्रति ।दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते ॥ ६६ ॥
अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् ।यथेष्टगुणसंपन्नं प्रवर्तकमिति स्मृतम् ॥ ६७ ॥
भीष्म उवाच ।इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् ।ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ॥ ६८ ॥
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते ।प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् ॥ ६९ ॥
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु ।ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥ ७० ॥
« »