Click on words to see what they mean.

युधिष्ठिर उवाच ।उक्तं पितामहेनेदं गवां दानमनुत्तमम् ।विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् ॥ १ ॥
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः ।परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः ।भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥ २ ॥
पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुंधराम् ।पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन ॥ ३ ॥
एवमेव गवामुक्तं प्रदानं ते नृगेण ह ।ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥ ४ ॥
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा ।सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ॥ ५ ॥
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै ।एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥ ६ ॥
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् ।किं दानं किं फलं चैव कस्माच्च परमुच्यते ॥ ७ ॥
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः ।कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥ ८ ॥
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् ।परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ॥ ९ ॥
भीष्म उवाच ।शृणु राजन्नवहितो बहुकारणविस्तरम् ।जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥ १० ॥
पिता मम महातेजाः शंतनुर्निधनं गतः ।तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥ ११ ॥
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् ।माता मे जाह्नवी चैव साहाय्यमकरोत्तदा ॥ १२ ॥
ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन् ।तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥ १३ ॥
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः ।दातुं निर्वपणं सम्यग्यथावदहमारभम् ॥ १४ ॥
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः ।प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते ॥ १५ ॥
तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् ।प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ॥ १६ ॥
ततो मे पुनरेवासीत्संज्ञा संचिन्त्य शास्त्रतः ।नायं वेदेषु विहितो विधिर्हस्त इति प्रभो ।पिण्डो देयो नरेणेह ततो मतिरभून्मम ॥ १७ ॥
साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित् ।गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति ॥ १८ ॥
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् ।शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन् ॥ १९ ॥
ततो दर्भेषु तत्सर्वमददं भरतर्षभ ।शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥ २० ॥
ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप ।ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा ॥ २१ ॥
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ ।विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥ २२ ॥
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव ।आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः ॥ २३ ॥
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः ।प्रमाणमुपनीता वै स्थितिश्च न विचालिता ॥ २४ ॥
तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ ।किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ॥ २५ ॥
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः ।पाविता वै भविष्यन्ति पावनं परमं हि तत् ॥ २६ ॥
दश पूर्वान्दश परांस्तथा संतारयन्ति ते ।सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् ॥ २७ ॥
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते ।सुवर्णदानेऽकरवं मतिं भरतसत्तम ॥ २८ ॥
इतिहासमिमं चापि शृणु राजन्पुरातनम् ।जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥ २९ ॥
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै ।त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ ३० ॥
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः ।आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥ ३१ ॥
वाजिमेधं महाराज सर्वकामसमन्वितम् ।पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ॥ ३२ ॥
विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै ।नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत ॥ ३३ ॥
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता ।पप्रच्छागमसंपन्नानृषीन्देवांश्च भार्गवः ॥ ३४ ॥
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् ।तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् ॥ ३५ ॥
वसिष्ठ उवाच ।देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत ।अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥ ३६ ॥
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः ।भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥ ३७ ॥
भूय एव च माहात्म्यं सुवर्णस्य निबोध मे ।गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ॥ ३८ ॥
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन ।प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै ॥ ३९ ॥
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः ।गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥ ४० ॥
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन ।समागमे भगवतो देव्या सह महात्मनः ।ततः सर्वे समुद्विग्ना भगवन्तमुपागमन् ॥ ४१ ॥
ते महादेवमासीनं देवीं च वरदामुमाम् ।प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ॥ ४२ ॥
अयं समागमो देव देव्या सह तवानघ ।तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः ।अमोघतेजास्त्वं देव देवी चेयमुमा तथा ॥ ४३ ॥
अपत्यं युवयोर्देव बलवद्भविता प्रभो ।तन्नूनं त्रिषु लोकेषु न किंचिच्छेषयिष्यति ॥ ४४ ॥
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन ।वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ।अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥ ४५ ॥
इति तेषां कथयतां भगवान्गोवृषध्वजः ।एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥ ४६ ॥
इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः ।ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः ॥ ४७ ॥
रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते ।देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥ ४८ ॥
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः ।तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ॥ ४९ ॥
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै ।तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥ ५० ॥
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह ।देवा देव्यास्तथा शापादनपत्यास्तदाभवन् ॥ ५१ ॥
रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा ।प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि ॥ ५२ ॥
तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् ।तेजस्तेजसि संपृक्तमेकयोनित्वमागतम् ॥ ५३ ॥
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः ।असुरस्तारको नाम तेन संतापिता भृशम् ॥ ५४ ॥
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि ।साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात् ॥ ५५ ॥
स्थानानि देवतानां हि विमानानि पुराणि च ।ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥ ५६ ॥
ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह ।प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् ॥ ५७ ॥
« »