Click on words to see what they mean.

भीष्म उवाच ।ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च ये ।तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥ १ ॥
ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते ।तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते ॥ २ ॥
दानानामपि सर्वेषां गवां दानं प्रशस्यते ।गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥ ३ ॥
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह ।पयो दधि घृतं यासां सर्वपापप्रमोचनम् ॥ ४ ॥
गावस्तेजः परं प्रोक्तमिह लोके परत्र च ।न गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ ॥ ५ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥ ६ ॥
पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे ।प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥ ७ ॥
अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः ।देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ।पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ॥ ८ ॥
नारदः पर्वतश्चैव विश्वावसुहहाहुहू ।दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ॥ ९ ॥
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा ।आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् ॥ १० ॥
तस्मिन्देवसमावाये सर्वभूतसमागमे ।दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते ।इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥ ११ ॥
देवानां भगवन्कस्माल्लोकेशानां पितामह ।उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ॥ १२ ॥
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर ।देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥ १३ ॥
ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् ।अवज्ञातास्त्वया नित्यं गावो बलनिसूदन ॥ १४ ॥
तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो ।गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥ १५ ॥
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव ।एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन ॥ १६ ॥
धारयन्ति प्रजाश्चैव पयसा हविषा तथा ।एतासां तनयाश्चापि कृषियोगमुपासते ॥ १७ ॥
जनयन्ति च धान्यानि बीजानि विविधानि च ।ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥ १८ ॥
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप ।वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः ॥ १९ ॥
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा ।वासवाकूटवाहिन्यः कर्मणा सुकृतेन च ।उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ॥ २० ॥
एतत्ते कारणं शक्र निवासकृतमद्य वै ।गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो ॥ २१ ॥
एता हि वरदत्ताश्च वरदाश्चैव वासव ।सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥ २२ ॥
यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम ।तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन ॥ २३ ॥
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु ।त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥ २४ ॥
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् ।पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥ २५ ॥
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः ।दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥ २६ ॥
अतप्यत तपो घोरं हृष्टा धर्मपरायणा ।कैलासशिखरे रम्ये देवगन्धर्वसेविते ॥ २७ ॥
व्यतिष्ठदेकपादेन परमं योगमास्थिता ।दश वर्षसहस्राणि दश वर्षशतानि च ॥ २८ ॥
संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः ।तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ॥ २९ ॥
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् ।किमर्थं तप्यते देवि तपो घोरमनिन्दिते ॥ ३० ॥
प्रीतस्तेऽहं महाभागे तपसानेन शोभने ।वरयस्व वरं देवि दातास्मीति पुरंदर ॥ ३१ ॥
सुरभ्युवाच ।वरेण भगवन्मह्यं कृतं लोकपितामह ।एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ॥ ३२ ॥
ब्रह्मोवाच ।तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर ।प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ॥ ३३ ॥
अलोभकाम्यया देवि तपसा च शुभेन ते ।प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ॥ ३४ ॥
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि ।मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति ॥ ३५ ॥
मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव ।निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ॥ ३६ ॥
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः ।यच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे ॥ ३७ ॥
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः ।न तत्र क्रमते मृत्युर्न जरा न च पावकः ।न दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव ॥ ३८ ॥
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च ।विमानानि च युक्तानि कामगानि च वासव ॥ ३९ ॥
व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् ।तपसा महता चैव सुकृतेन च कर्मणा ।शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥ ४० ॥
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते ।न ते परिभवः कार्यो गवामरिनिसूदन ॥ ४१ ॥
भीष्म उवाच ।एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा ।गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥ ४२ ॥
एतत्ते सर्वमाख्यातं पावनं च महाद्युते ।पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ।कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ॥ ४३ ॥
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः ।हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ।सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति ॥ ४४ ॥
गोषु भक्तश्च लभते यद्यदिच्छति मानवः ।स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः ॥ ४५ ॥
पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् ।धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥ ४६ ॥
विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् ।न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत ॥ ४७ ॥
« »