Click on words to see what they mean.

युधिष्ठिर उवाच ।के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत ।एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ॥ १ ॥
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः ।मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥ २ ॥
भीष्म उवाच ।स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् ।येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥ ३ ॥
येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् ।उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ॥ ४ ॥
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् ।श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥ ५ ॥
संसत्सु वदतां येषां हंसानामिव संघशः ।मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥ ६ ॥
सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर ।शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥ ७ ॥
ये चापि तेषां श्रोतारः सदा सदसि संमताः ।विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम् ॥ ८ ॥
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च ।ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ।ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ॥ ९ ॥
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् ।शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।तेषां संख्यायमानानां दानशूरो विशिष्यते ॥ १० ॥
धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा ।कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥ ११ ॥
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन ।त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ १२ ॥
यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह ।तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः ॥ १३ ॥
न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् ।न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥ १४ ॥
न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह ।अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥ १५ ॥
कर्मणा मनसा वापि वाचा वापि परंतप ।यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥ १६ ॥
ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः ।एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥ १७ ॥
पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः ।तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥ १८ ॥
यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर ।स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥ १९ ॥
क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः ।पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ॥ २० ॥
नारी तु पत्यभावे वै देवरं कुरुते पतिम् ।पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥ २१ ॥
पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते ।अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥ २२ ॥
ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् ।आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ॥ २३ ॥
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर ।उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥ २४ ॥
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते ।हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥ २५ ॥
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् ।कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ॥ २६ ॥
दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् ।ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥ २७ ॥
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः ।गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ॥ २८ ॥
« »