Click on words to see what they mean.

वसिष्ठ उवाच ।शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् ।गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥ १ ॥
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः ।भवेम न च लिप्येम दोषेणेति परंतप ॥ २ ॥
स एव चेतसा तेन हतो लिप्येत सर्वदा ।शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ॥ ३ ॥
तथा सर्वाणि भूतानि स्थावराणि चराणि च ।प्रदातारश्च गोलोकान्गच्छेयुरिति मानद ॥ ४ ॥
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।एवं भवत्विति विभुर्लोकांस्तारयतेति च ॥ ५ ॥
उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः ।तपसोऽन्ते महाराज गावो लोकपरायणाः ॥ ६ ॥
तस्माद्गावो महाभागाः पवित्रं परमुच्यते ।तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि ॥ ७ ॥
समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥ ८ ॥
रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥ ९ ॥
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥ १० ॥
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥ ११ ॥
समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ॥ १२ ॥
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥ १३ ॥
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् ।प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते ॥ १४ ॥
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् ।प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥ १५ ॥
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् ।प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥ १६ ॥
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् ।प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥ १७ ॥
सवत्सां पीवरीं दत्त्वा शितिकण्ठामलंकृताम् ।वैश्वदेवमसंबाधं स्थानं श्रेष्ठं प्रपद्यते ॥ १८ ॥
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते ॥ १९ ॥
पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् ।प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते ॥ २० ॥
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलंकृतम् ।प्रदाय मरुतां लोकानजरान्प्रतिपद्यते ॥ २१ ॥
वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् ।गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥ २२ ॥
शितिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम् ।दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥ २३ ॥
गोप्रदानरतो याति भित्त्वा जलदसंचयान् ।विमानेनार्कवर्णेन दिवि राजन्विराजता ॥ २४ ॥
तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः ।रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् ॥ २५ ॥
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः ।हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते ॥ २६ ॥
यावन्ति लोमानि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः ।स्वर्गाच्च्युतश्चापि ततो नृलोके कुले समुत्पत्स्यति गोमिनां सः ॥ २७ ॥
« »