Click on words to see what they mean.

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा भूयः शांतनवं नृप ।गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ॥ १ ॥
युधिष्ठिर उवाच ।गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत ।न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥ २ ॥
इत्युक्तो धर्मराजेन तदा शांतनवो नृप ।सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥ ३ ॥
भीष्म उवाच ।वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् ।दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥ ४ ॥
असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति ।पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ॥ ५ ॥
जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् ।दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥ ६ ॥
दुष्टा रुष्टा व्याधिता दुर्बला वा न दातव्या याश्च मूल्यैरदत्तैः ।क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः ॥ ७ ॥
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः ।यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥ ८ ॥
युधिष्ठिर उवाच ।कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् ।विशेषमिच्छामि महानुभाव श्रोतुं समर्थो हि भवान्प्रवक्तुम् ॥ ९ ॥
भीष्म उवाच ।वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे ।वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥ १० ॥
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥ ११ ॥
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः ।तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥ १२ ॥
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः ।ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ॥ १३ ॥
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः ।सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ॥ १४ ॥
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया ।वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥ १५ ॥
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः ।प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ॥ १६ ॥
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् ।ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ॥ १७ ॥
सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः ।सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥ १८ ॥
तासाममृतवर्णानां क्षरन्तीनां समन्ततः ।बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥ १९ ॥
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः ।शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ।ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ॥ २० ॥
तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते ।नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥ २१ ॥
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः ।यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ॥ २२ ॥
अथ क्रुद्धं महादेवं प्रजापतिरभाषत ।अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥ २३ ॥
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः ।तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः ॥ २४ ॥
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ।नामृतेनामृतं पीतं वत्सपीता न वत्सला ॥ २५ ॥
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च ।आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् ॥ २६ ॥
वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः ।प्रसादयामास मनस्तेन रुद्रस्य भारत ॥ २७ ॥
प्रीतश्चापि महादेवश्चकार वृषभं तदा ।ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥ २८ ॥
ततो देवैर्महादेवस्तदा पशुपतिः कृतः ।ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ॥ २९ ॥
एवमव्यग्रवर्णानां कपिलानां महौजसाम् ।प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥ ३० ॥
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोपेताः सोमविष्यन्दभूताः ।सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥ ३१ ॥
इमं गवां प्रभवविधानमुत्तमं पठन्सदा शुचिरतिमङ्गलप्रियः ।विमुच्यते कलिकलुषेण मानवः प्रियं सुतान्पशुधनमाप्नुयात्तथा ॥ ३२ ॥
हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य पुष्टिम् ।एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव ॥ ३३ ॥
वैशंपायन उवाच ।पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः ।सौवर्णकांस्योपदुहास्ततो गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥ ३४ ॥
तथैव तेभ्योऽभिददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव ।यज्ञान्समुद्दिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् ॥ ३५ ॥
« »