Click on words to see what they mean.

युधिष्ठिर उवाच ।कर्मणां मे समस्तानां शुभानां भरतर्षभ ।फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः ॥ १ ॥
भीष्म उवाच ।रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर ।या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥ २ ॥
येन येन शरीरेण यद्यत्कर्म करोति यः ।तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ३ ॥
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ।तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥ ४ ॥
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह ।ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥ ५ ॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ ६ ॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ ७ ॥
स्थण्डिले शयमानानां गृहाणि शयनानि च ।चीरवल्कलसंवीते वासांस्याभरणानि च ॥ ८ ॥
वाहनासनयानानि योगात्मनि तपोधने ।अग्नीनुपशयानस्य राजपौरुषमुच्यते ॥ ९ ॥
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति ।आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥ १० ॥
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् ।सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥ ११ ॥
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् ।दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥ १२ ॥
वीरासनं वीरशय्यां वीरस्थानमुपासतः ।अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥ १३ ॥
धनं लभेत दानेन मौनेनाज्ञां विशां पते ।उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ १४ ॥
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ॥ १५ ॥
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते ।स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥ १६ ॥
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः ।स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ॥ १७ ॥
सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः ।मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥ १८ ॥
उपवासं च दीक्षां च अभिषेकं च पार्थिव ।कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ १९ ॥
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते ।मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् ॥ २० ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २१ ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ २२ ॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ २३ ॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥ २४ ॥
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः ।प्रीणाति मातरं येन पृथिवी तेन पूजिता ।येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ॥ २५ ॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २६ ॥
वैशंपायन उवाच ।भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुंगवाः ।आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥ २७ ॥
यन्मन्त्रे भवति वृथा प्रयुज्यमाने यत्सोमे भवति वृथाभिषूयमाणे ।यच्चाग्नौ भवति वृथाभिहूयमाने तत्सर्वं भवति वृथाभिधीयमाने ॥ २८ ॥
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो ।शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥ २९ ॥
« »