Click on words to see what they mean.

युधिष्ठिर उवाच ।तिलानां कीदृशं दानमथ दीपस्य चैव ह ।अन्नानां वाससां चैव भूय एव ब्रवीहि मे ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥ २ ॥
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह ।गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ ३ ॥
पर्णशालेति विख्यातो रमणीयो नराधिप ।विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ॥ ४ ॥
अथ प्राह यमः कंचित्पुरुषं कृष्णवाससम् ।रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥ ५ ॥
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय ।अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥ ६ ॥
शमे निविष्टं विद्वांसमध्यापकमनादृतम् ।मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥ ७ ॥
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना ।अपत्येषु तथा वृत्ते समस्तेनैव धीमता ।तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥ ८ ॥
स गत्वा प्रतिकूलं तच्चकार यमशासनम् ।तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥ ९ ॥
तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् ।प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥ १० ॥
एवमुक्ते तु वचने धर्मराजेन स द्विजः ।उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ।यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥ ११ ॥
यम उवाच ।नाहं कालस्य विहितं प्राप्नोमीह कथंचन ।यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥ १२ ॥
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते ।ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत ॥ १३ ॥
ब्राह्मण उवाच ।यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे ।सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥ १४ ॥
यम उवाच ।शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् ।तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥ १५ ॥
तिलाश्च संप्रदातव्या यथाशक्ति द्विजर्षभ ।नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥ १६ ॥
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् ।तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥ १७ ॥
तिला भक्षयितव्याश्च सदा त्वालभनं च तैः ।कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ॥ १८ ॥
तथापः सर्वदा देयाः पेयाश्चैव न संशयः ।पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ॥ १९ ॥
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम ।आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ॥ २० ॥
प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम ।भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ॥ २१ ॥
इत्युक्ते स तदा तेन यमदूतेन वै गृहान् ।नीतश्चकार च तथा सर्वं तद्यमशासनम् ॥ २२ ॥
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा ।ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥ २३ ॥
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् ।कृत्वा च संविदं तेन विससर्ज यथागतम् ॥ २४ ॥
तस्यापि च यमः सर्वमुपदेशं चकार ह ।प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ॥ २५ ॥
तथा प्रशंसते दीपान्यमः पितृहितेप्सया ।तस्माद्दीपप्रदो नित्यं संतारयति वै पितॄन् ॥ २६ ॥
दातव्याः सततं दीपास्तस्माद्भरतसत्तम ।देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ॥ २७ ॥
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप ।तानि विक्रीय यजते ब्राह्मणो ह्यभयंकरः ॥ २८ ॥
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै ।उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥ २९ ॥
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् ।उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥ ३० ॥
वाससां तु प्रदानेन स्वदारनिरतो नरः ।सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥ ३१ ॥
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः ।बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥ ३२ ॥
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च ।पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥ ३३ ॥
« »