Click on words to see what they mean.

युधिष्ठिर उवाच ।दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः ।मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ।स शत्रूणामुपरि च संतिष्ठति युधिष्ठिर ॥ २ ॥
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते ।उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् ।शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥ ३ ॥
युधिष्ठिर उवाच ।यत्फलं तिलदाने च भूमिदाने च कीर्तितम् ।गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव ॥ ४ ॥
भीष्म उवाच ।शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् ।निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥ ५ ॥
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा ।तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥ ६ ॥
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति ।सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ॥ ७ ॥
सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् ।न चाकामेन दातव्यं तिलश्राद्धं कथंचन ॥ ८ ॥
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः ।ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ॥ ९ ॥
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः ।तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥ १० ॥
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा ।महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥ ११ ॥
तिलहोमपरा विप्राः सर्वे संयतमैथुनाः ।समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥ १२ ॥
सर्वेषामेव दानानां तिलदानं परं स्मृतम् ।अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥ १३ ॥
उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप ।तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥ १४ ॥
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् ।विधानं येन विधिना तिलानामिह शस्यते ॥ १५ ॥
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् ।समागमं महाराज ब्रह्मणा वै स्वयंभुवा ॥ १६ ॥
देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः ।शुभं देशमयाचन्त यजेम इति पार्थिव ॥ १७ ॥
देवा ऊचुः ।भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च ।यजेमहि महाभाग यज्ञं भवदनुज्ञया ।नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ॥ १८ ॥
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च ।प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥ १९ ॥
ब्रह्मोवाच ।ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः ।यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ॥ २० ॥
देवा ऊचुः ।भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः ।इमं तु देशं मुनयः पर्युपासन्त नित्यदा ॥ २१ ॥
भीष्म उवाच ।ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः ।असितो देवलश्चैव देवयज्ञमुपागमन् ॥ २२ ॥
ततो देवा महात्मान ईजिरे यज्ञमच्युत ।तथा समापयामासुर्यथाकालं सुरर्षभाः ॥ २३ ॥
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे ।षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ॥ २४ ॥
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् ।न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥ २५ ॥
शीतवातातपसहां गृहभूमिं सुसंस्कृताम् ।प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥ २६ ॥
मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव ।प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते ॥ २७ ॥
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः ।गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥ २८ ॥
तथा गवार्थे शरणं शीतवर्षसहं महत् ।आसप्तमं तारयति कुलं भरतसत्तम ॥ २९ ॥
क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात् ।रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् ॥ ३० ॥
न चोषरां न निर्दग्धां महीं दद्यात्कथंचन ।न श्मशानपरीतां च न च पापनिषेविताम् ॥ ३१ ॥
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः ।तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥ ३२ ॥
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः ।पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥ ३३ ॥
अटवीपर्वताश्चैव नदीतीर्थानि यानि च ।सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः ॥ ३४ ॥
इत्येतद्भूमिदानस्य फलमुक्तं विशां पते ।अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥ ३५ ॥
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च ।तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः ॥ ३६ ॥
ब्रह्मलोके वसन्त्येताः सोमेन सह भारत ।आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥ ३७ ॥
पयसा हविषा दध्ना शकृताप्यथ चर्मणा ।अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥ ३८ ॥
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते ।न वर्षं विषमं वापि दुःखमासां भवत्युत ॥ ३९ ॥
ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् ।एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥ ४० ॥
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः ।ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ॥ ४१ ॥
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः ।ता इमा विप्रमुख्येभ्यो यो ददाति महीपते ।निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥ ४२ ॥
गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति ।सर्वत्र विजयं चापि लभते मनुजाधिप ॥ ४३ ॥
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः ।तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥ ४४ ॥
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः ।तस्माद्ददाति यो धेनुं स हौम्यं संप्रयच्छति ॥ ४५ ॥
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् ।विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥ ४६ ॥
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ ।तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति ॥ ४७ ॥
गावः शरण्या भूतानामिति वेदविदो विदुः ।तस्माद्ददाति यो धेनुं शरणं संप्रयच्छति ॥ ४८ ॥
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके ।गोजीविने न दातव्या तथा गौः पुरुषर्षभ ॥ ४९ ॥
ददाति तादृशानां वै नरो गाः पापकर्मणाम् ।अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः ॥ ५० ॥
न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा ।न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥ ५१ ॥
दशगोसहस्रदः सम्यक्शक्रेण सह मोदते ।अक्षयाँल्लभते लोकान्नरः शतसहस्रदः ॥ ५२ ॥
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् ।तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥ ५३ ॥
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते ।अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥ ५४ ॥
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप ।स्वायंभुवं महाभागं स पश्यति नराधिप ॥ ५५ ॥
न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत ।प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो ॥ ५६ ॥
अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता ।अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥ ५७ ॥
सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः ।न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥ ५८ ॥
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् ।यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः ॥ ५९ ॥
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत ।स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥ ६० ॥
अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः ।स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥ ६१ ॥
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् ।पापं तरति चैवेह दुष्कृतं चापकर्षति ॥ ६२ ॥
इत्येतदन्नदानस्य तिलदानस्य चैव ह ।भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥ ६३ ॥
« »