Click on words to see what they mean.

युधिष्ठिर उवाच ।दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम् ।कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥ १ ॥
एतदिच्छामि विज्ञातुं याथातथ्येन भारत ।विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥ २ ॥
अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः ।किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह ॥ ३ ॥
भीष्म उवाच ।रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते ।तस्य वैतानिकं कर्म दानं चैवेह पावनम् ॥ ४ ॥
न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ॥ ५ ॥
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः ।श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् ॥ ६ ॥
ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः ।मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ॥ ७ ॥
यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति ।यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥ ८ ॥
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा ।पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥ ९ ॥
प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः ।प्रजावांस्तेन भवति यथा जनयिता तथा ॥ १० ॥
यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत ।सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः ॥ ११ ॥
समृद्धः संप्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर ।धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥ १२ ॥
आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत ।अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥ १३ ॥
एते देया व्युष्टिमन्तो लघूपायाश्च भारत ।अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥ १४ ॥
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय ।राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥ १५ ॥
एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि ।स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥ १६ ॥
ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च ।आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥ १७ ॥
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय ।योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥ १८ ॥
अरक्षितारं हर्तारं विलोप्तारमदायकम् ।तं स्म राजकलिं हन्युः प्रजाः संभूय निर्घृणम् ॥ १९ ॥
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ २० ॥
पापं कुर्वन्ति यत्किंचित्प्रजा राज्ञा ह्यरक्षिताः ।चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥ २१ ॥
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः ।चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ॥ २२ ॥
शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः ।चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥ २३ ॥
जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर ।पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥ २४ ॥
कुबेरमिव रक्षांसि शतक्रतुमिवामराः ।ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परंतप ॥ २५ ॥
« »