Click on words to see what they mean.

युधिष्ठिर उवाच ।यानीमानि बहिर्वेद्यां दानानि परिचक्षते ।तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव ॥ १ ॥
कौतूहलं हि परमं तत्र मे वर्तते प्रभो ।दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ॥ २ ॥
भीष्म उवाच ।अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् ।यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥ ३ ॥
दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते ।दत्तं दातारमन्वेति यद्दानं भरतर्षभ ॥ ४ ॥
हिरण्यदानं गोदानं पृथिवीदानमेव च ।एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् ॥ ५ ॥
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा ।दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥ ६ ॥
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ।तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ ७ ॥
प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा ।प्रियो भवति भूतानामिह चैव परत्र च ॥ ८ ॥
याचमानमभीमानादाशावन्तमकिंचनम् ।यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥ ९ ॥
अमित्रमपि चेद्दीनं शरणैषिणमागतम् ।व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥ १० ॥
कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते ।अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः ॥ ११ ॥
ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् ।अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय ॥ १२ ॥
आशिषं ये न देवेषु न मर्त्येषु च कुर्वते ।अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः ॥ १३ ॥
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत ।तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान् ॥ १४ ॥
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः ।निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः ॥ १५ ॥
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर ।कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ॥ १६ ॥
विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः ।गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ॥ १७ ॥
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च ।यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति ॥ १८ ॥
यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना ।तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना ॥ १९ ॥
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः ।विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥ २० ॥
निवापो दानसदृशस्तादृशेषु युधिष्ठिर ।निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति ॥ २१ ॥
य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि ।त एव नः पूज्यतमा ये चान्ये प्रियवादिनः ॥ २२ ॥
ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे ।पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् ॥ २३ ॥
ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते ।क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे ॥ २४ ॥
अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर ।ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च ॥ २५ ॥
यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ ।तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥ २६ ॥
नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम् ।यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ॥ २७ ॥
को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् ।वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥ २८ ॥
यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः ।स देवः सा गतिर्नान्या तथास्माकं द्विजातयः ॥ २९ ॥
यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः ।पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥ ३० ॥
अवेदानामकीर्तीनामलोकानामयज्वनाम् ।कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम् ॥ ३१ ॥
अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः ।राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह ।वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ॥ ३२ ॥
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् ।संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च ॥ ३३ ॥
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् ।आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ॥ ३४ ॥
अपरेषां परेषां च परेभ्यश्चैव ये परे ।क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥ ३५ ॥
न मे पिता प्रियतरो न त्वं तात तथा प्रियः ।न मे पितुः पिता राजन्न चात्मा न च जीवितम् ॥ ३६ ॥
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन ।त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ ३७ ॥
ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन ।तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः ॥ ३८ ॥
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् ।तत्र मे तात गन्तव्यमह्नाय च चिराय च ॥ ३९ ॥
सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम ।यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥ ४० ॥
« »