Click on words to see what they mean.

युधिष्ठिर उवाच ।मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः ।हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीमिमाम् ॥ १ ॥
प्राप्य राज्यानि शतशो महीं जित्वापि भारत ।कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥ २ ॥
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति ।या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥ ३ ॥
वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च ।अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः ॥ ४ ॥
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत ।उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ॥ ५ ॥
वैशंपायन उवाच ।युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः ।परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥ ६ ॥
रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि ।या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ॥ ७ ॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥ ८ ॥
ज्ञानं विज्ञानमारोग्यं रूपं संपत्तथैव च ।सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥ ९ ॥
धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति ।उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥ १० ॥
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले ।फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ॥ ११ ॥
पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः ।गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः ॥ १२ ॥
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् ।स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् ॥ १३ ॥
नित्यस्नायी भवेद्दक्षः संध्ये तु द्वे जपन्द्विजः ।मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥ १४ ॥
स्थण्डिले शयमानानां गृहाणि शयनानि च ।चीरवल्कलवासोभिर्वासांस्याभरणानि च ॥ १५ ॥
शय्यासनानि यानानि योगयुक्ते तपोधने ।अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते ॥ १६ ॥
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति ।आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् ॥ १७ ॥
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् ।सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥ १८ ॥
कीर्तिर्भवति दानेन तथारोग्यमहिंसया ।द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ॥ १९ ॥
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती ।अन्नपानप्रदानेन तृप्यते कामभोगतः ॥ २० ॥
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते ।देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति ॥ २१ ॥
दीपालोकप्रदानेन चक्षुष्मान्भवते नरः ।प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥ २२ ॥
गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला ।केशश्मश्रून्धारयतामग्र्या भवति संततिः ॥ २३ ॥
उपवासं च दीक्षां च अभिषेकं च पार्थिव ।कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ॥ २४ ॥
दासीदासमलंकारान्क्षेत्राणि च गृहाणि च ।ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥ २५ ॥
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत ।लभते च चिरं स्थानं बलिपुष्पप्रदो नरः ॥ २६ ॥
सुवर्णशृङ्गैस्तु विभूषितानां गवां सहस्रस्य नरः प्रदाता ।प्राप्नोति पुण्यं दिवि देवलोकमित्येवमाहुर्मुनिदेवसंघाः ॥ २७ ॥
प्रयच्छते यः कपिलां सचैलां कांस्योपदोहां कनकाग्रशृङ्गीम् ।तैस्तैर्गुणैः कामदुघास्य भूत्वा नरं प्रदातारमुपैति सा गौः ॥ २८ ॥
यावन्ति लोमानि भवन्ति धेन्वास्तावत्फलं प्राप्नुते गोप्रदाता ।पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥ २९ ॥
सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणोत्तरीयाम् ।धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥ ३० ॥
स्वकर्मभिर्मानवं संनिबद्धं तीव्रान्धकारे नरके पतन्तम् ।महार्णवे नौरिव वायुयुक्ता दानं गवां तारयते परत्र ॥ ३१ ॥
यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे ।ददाति चान्नं विधिवच्च यश्च स लोकमाप्नोति पुरंदरस्य ॥ ३२ ॥
नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय ।स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु ॥ ३३ ॥
धुर्यप्रदानेन गवां तथाश्वैर्लोकानवाप्नोति नरो वसूनाम् ।स्वर्गाय चाहुर्हि हिरण्यदानं ततो विशिष्टं कनकप्रदानम् ॥ ३४ ॥
छत्रप्रदानेन गृहं वरिष्ठं यानं तथोपानहसंप्रदाने ।वस्त्रप्रदानेन फलं सुरूपं गन्धप्रदाने सुरभिर्नरः स्यात् ॥ ३५ ॥
पुष्पोपगं वाथ फलोपगं वा यः पादपं स्पर्शयते द्विजाय ।स स्त्रीसमृद्धं बहुरत्नपूर्णं लभत्ययत्नोपगतं गृहं वै ॥ ३६ ॥
भक्षान्नपानीयरसप्रदाता सर्वानवाप्नोति रसान्प्रकामम् ।प्रतिश्रयाच्छादनसंप्रदाता प्राप्नोति तानेव न संशयोऽत्र ॥ ३७ ॥
स्रग्धूपगन्धान्यनुलेपनानि स्नानानि माल्यानि च मानवो यः ।दद्याद्द्विजेभ्यः स भवेदरोगस्तथाभिरूपश्च नरेन्द्रलोके ॥ ३८ ॥
बीजैरशून्यं शयनैरुपेतं दद्याद्गृहं यः पुरुषो द्विजाय ।पुण्याभिरामं बहुरत्नपूर्णं लभत्यधिष्ठानवरं स राजन् ॥ ३९ ॥
सुगन्धचित्रास्तरणोपपन्नं दद्यान्नरो यः शयनं द्विजाय ।रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत्सः ॥ ४० ॥
पितामहस्यानुचरो वीरशायी भवेन्नरः ।नाधिकं विद्यते तस्मादित्याहुः परमर्षयः ॥ ४१ ॥
वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः ।नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥ ४२ ॥
ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ ।पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥ ४३ ॥
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी ।युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥ ४४ ॥
« »