Click on words to see what they mean.

युधिष्ठिर उवाच ।ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् ।कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥ १ ॥
विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः ।अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥ २ ॥
भीष्म उवाच ।आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः ।नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥ ३ ॥
पतितस्य च भार्यायां भर्त्रा सुसमवेतया ।तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ॥ ४ ॥
षडपध्वंसजाश्चापि कानीनापसदास्तथा ।इत्येते ते समाख्यातास्तान्विजानीहि भारत ॥ ५ ॥
युधिष्ठिर उवाच ।षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा ।एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥ ६ ॥
भीष्म उवाच ।त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर ।वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥ ७ ॥
एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः ।षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ॥ ८ ॥
चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च ।वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ॥ ९ ॥
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ ।ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ १० ॥
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः ।पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ॥ ११ ॥
युधिष्ठिर उवाच ।क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् ।तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥ १२ ॥
भीष्म उवाच ।रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् ।अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥ १३ ॥
युधिष्ठिर उवाच ।रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् ।अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् ॥ १४ ॥
भीष्म उवाच ।आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे ।न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥ १५ ॥
पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते ।तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥ १६ ॥
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ ।न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥ १७ ॥
कश्चिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते ।न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ॥ १८ ॥
युधिष्ठिर उवाच ।कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते ।शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ॥ १९ ॥
भीष्म उवाच ।मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत् ।न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः ॥ २० ॥
अस्वामिकस्य स्वामित्वं यस्मिन्संप्रतिलक्षयेत् ।सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ॥ २१ ॥
युधिष्ठिर उवाच ।कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् ।देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥ २२ ॥
भीष्म उवाच ।आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा ॥ २३ ॥
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते ।तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ॥ २४ ॥
अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर ।संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये ॥ २५ ॥
कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ ।तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ॥ २६ ॥
क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ ।आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः ॥ २७ ॥
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते ।एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २८ ॥
« »