Click on words to see what they mean.

युधिष्ठिर उवाच ।सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम ।अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥ १ ॥
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह ।अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् ॥ २ ॥
यथा नरेण कर्तव्यं यश्च धर्मः सनातनः ।एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ॥ ३ ॥
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह ।ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥ ४ ॥
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम ।आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥ ५ ॥
केन वा किं ततो हार्यं पितृवित्तात्पितामह ।एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ॥ ६ ॥
भीष्म उवाच ।ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥ ७ ॥
वैषम्यादथ वा लोभात्कामाद्वापि परंतप ।ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ ८ ॥
शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् ।प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना ॥ ९ ॥
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर ।अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत ॥ १० ॥
लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् ।ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥ ११ ॥
शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर ।तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ॥ १२ ॥
क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः ।स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति ॥ १३ ॥
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि ।द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ॥ १४ ॥
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः ।अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत ॥ १५ ॥
दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः ।सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥ १६ ॥
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् ।त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥ १७ ॥
स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते ।हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥ १८ ॥
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥ १९ ॥
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते ।यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते ॥ २० ॥
यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् ।नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥ २१ ॥
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु ।यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥ २२ ॥
त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै ।तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति ॥ २३ ॥
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् ।नापहारं स्त्रियः कुर्युः पतिवित्तात्कथंचन ॥ २४ ॥
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर ।ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा ।सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ॥ २५ ॥
एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ ।एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥ २६ ॥
युधिष्ठिर उवाच ।शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः ।केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥ २७ ॥
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः ।क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥ २८ ॥
कस्मात्ते विषमं भागं भजेरन्नृपसत्तम ।यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥ २९ ॥
भीष्म उवाच ।दारा इत्युच्यते लोके नाम्नैकेन परंतप ।प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् ॥ ३० ॥
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् ।सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी ॥ ३१ ॥
स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् ।हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे ॥ ३२ ॥
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति ।ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर ॥ ३३ ॥
अन्नं पानं च माल्यं च वासांस्याभरणानि च ।ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी ॥ ३४ ॥
मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन ।तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥ ३५ ॥
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर ।यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ॥ ३६ ॥
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् ।राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि ॥ ३७ ॥
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् ।ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ।भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर ॥ ३८ ॥
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् ।क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ॥ ३९ ॥
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर ।विहितं दृश्यते राजन्सागरान्ता च मेदिनी ॥ ४० ॥
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् ।राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ॥ ४१ ॥
ब्राह्मणा हि महाभागा देवानामपि देवताः ।तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥ ४२ ॥
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् ।लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥ ४३ ॥
दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः ।सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥ ४४ ॥
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः ।भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥ ४५ ॥
युधिष्ठिर उवाच ।उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह ।इतरेषां तु वर्णानां कथं विनियमो भवेत् ॥ ४६ ॥
भीष्म उवाच ।क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन ।तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ ४७ ॥
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर ।अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर ॥ ४८ ॥
क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात् ।युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् ॥ ४९ ॥
वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् ।सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ॥ ५० ॥
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन ।द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ ५१ ॥
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ ।शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः ॥ ५२ ॥
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ ।तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ॥ ५३ ॥
वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ।पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत ॥ ५४ ॥
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् ॥ ५५ ॥
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथंचन ।शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् ॥ ५६ ॥
जातानां समवर्णासु पुत्राणामविशेषतः ।सर्वेषामेव वर्णानां समभागो धने स्मृतः ॥ ५७ ॥
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः ।एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा ॥ ५८ ॥
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप ।विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते ॥ ५९ ॥
हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि ।मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥ ६० ॥
एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः ।महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥ ६१ ॥
« »