Click on words to see what they mean.

भीष्म उवाच ।विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः ।तपोयुक्तमथात्मानममन्यत च वीर्यवान् ॥ १ ॥
स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते ।चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु ॥ २ ॥
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः ।कर्मणा तेन कौरव्य तपसा विपुलेन च ॥ ३ ॥
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन ।रुच्या भगिन्या दानं वै बभूव धनधान्यवत् ॥ ४ ॥
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना ।बिभ्रती परमं रूपं जगामाथ विहायसा ॥ ५ ॥
तस्याः शरीरात्पुष्पाणि पतितानि महीतले ।तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥ ६ ॥
तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना ।तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ॥ ७ ॥
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती ।भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥ ८ ॥
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी ।आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान् ॥ ९ ॥
पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना ।भगिनीं चोदयामास पुष्पार्थे चारुलोचना ॥ १० ॥
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना ।भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ॥ ११ ॥
ततो विपुलमानाय्य देवशर्मा महातपाः ।पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ॥ १२ ॥
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः ।स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ॥ १३ ॥
यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् ।अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ॥ १४ ॥
ततः स तानि जग्राह दिव्यानि रुचिराणि च ।प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ॥ १५ ॥
संप्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः ।ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् ॥ १६ ॥
स वने विजने तात ददर्श मिथुनं नृणाम् ।चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ॥ १७ ॥
तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् ।एकस्तु न तथा राजंश्चक्रतुः कलहं ततः ॥ १८ ॥
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः ।नेति नेति च तौ तात परस्परमथोचतुः ॥ १९ ॥
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा ।मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ॥ २० ॥
आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै ।विपुलस्य परे लोके या गतिः सा भवेदिति ॥ २१ ॥
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् ।एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः ॥ २२ ॥
मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः ।अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै ॥ २३ ॥
एवं संचिन्तयन्नेव विपुलो राजसत्तम ।अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः ॥ २४ ॥
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः ।अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ॥ २५ ॥
कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै ।विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् ॥ २६ ॥
यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् ।विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ॥ २७ ॥
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसंकरम् ।जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ॥ २८ ॥
स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः ।दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥ २९ ॥
तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः ।इदमासीन्मनसि च रुच्या रक्षणकारितम् ॥ ३० ॥
लक्षणं लक्षणेनैव वदनं वदनेन च ।विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा ॥ ३१ ॥
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा ।अमन्यत महाभाग तथा तच्च न संशयः ॥ ३२ ॥
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ ।पूजयामास च गुरुं विधिवत्स गुरुप्रियः ॥ ३३ ॥
« »