Click on words to see what they mean.

भीष्म उवाच ।एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचन ।यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥ १ ॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥ २ ॥
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ ।यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ॥ ३ ॥
न हि स्त्रीभ्य परं पुत्र पापीयः किंचिदस्ति वै ।अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो ।क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ॥ ४ ॥
इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् ।स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥ ५ ॥
अथाभ्यगच्छन्देवास्ते पितामहमरिंदम ।निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः ॥ ६ ॥
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः ।मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥ ७ ॥
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् ।असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ॥ ८ ॥
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः ।ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा ॥ ९ ॥
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः ।असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ॥ १० ॥
न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः ।निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥ ११ ॥
शय्यासनमलंकारमन्नपानमनार्यताम् ।दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ॥ १२ ॥
न तासां रक्षणं कर्तुं शक्यं पुंसा कथंचन ।अपि विश्वकृता तात कुतस्तु पुरुषैरिह ॥ १३ ॥
वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ।न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥ १४ ॥
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् ।यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः ॥ १५ ॥
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः ।तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ॥ १६ ॥
तस्य रूपेण संमत्ता देवगन्धर्वदानवाः ।विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः ॥ १७ ॥
नारीणां चरितज्ञश्च देवशर्मा महामुनिः ।यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ॥ १८ ॥
पुरंदरं च जानीते परस्त्रीकामचारिणम् ।तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥ १९ ॥
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा ।भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ॥ २० ॥
रक्षाविधानं मनसा स विचिन्त्य महातपाः ।आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥ २१ ॥
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः ।पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥ २२ ॥
अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् ।स हि रूपाणि कुरुते विविधानि भृगूद्वह ॥ २३ ॥
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः ।सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः ॥ २४ ॥
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत ।पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् ॥ २५ ॥
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने ।वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥ २६ ॥
ततः स भगवांस्तस्मै विपुलाय महात्मने ।आचचक्षे यथातत्त्वं मायां शक्रस्य भारत ॥ २७ ॥
बहुमायः स विप्रर्षे बलहा पाकशासनः ।तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ॥ २८ ॥
किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः ।भवत्यथ मुहूर्तेन चण्डालसमदर्शनः ॥ २९ ॥
शिखी जटी चीरवासाः पुनर्भवति पुत्रक ।बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः ॥ ३० ॥
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः ।विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥ ३१ ॥
प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च ।ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ।प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ॥ ३२ ॥
शुकवायसरूपी च हंसकोकिलरूपवान् ।सिंहव्याघ्रगजानां च रूपं धारयते पुनः ॥ ३३ ॥
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च ।सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ॥ ३४ ॥
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः ।मक्षिकामशकादीनां वपुर्धारयतेऽपि च ॥ ३५ ॥
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् ।अपि विश्वकृता तात येन सृष्टमिदं जगत् ॥ ३६ ॥
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा ।वायुभूतश्च स पुनर्देवराजो भवत्युत ॥ ३७ ॥
एवं रूपाणि सततं कुरुते पाकशासनः ।तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ॥ ३८ ॥
यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम ।क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् ॥ ३९ ॥
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा ।देवशर्मा महाभागस्ततो भरतसत्तम ॥ ४० ॥
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् ।रक्षां च परमां चक्रे देवराजान्महाबलात् ॥ ४१ ॥
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे ।मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ॥ ४२ ॥
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः ।उटजं वा तथा ह्यस्य नानाविधसरूपता ॥ ४३ ॥
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् ।तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै ॥ ४४ ॥
अथ वा पौरुषेणेयमशक्या रक्षितुं मया ।बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः ॥ ४५ ॥
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् ।गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम् ॥ ४६ ॥
यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः ।शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ॥ ४७ ॥
न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः ।मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ॥ ४८ ॥
अवश्यकरणीयं हि गुरोरिह हि शासनम् ।यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥ ४९ ॥
योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् ।निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥ ५० ॥
यथा हि शून्यां पथिकः सभामध्यावसेत्पथि ।तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ॥ ५१ ॥
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः ।एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ॥ ५२ ॥
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः ।तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥ ५३ ॥
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः ।आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ॥ ५४ ॥
गुरुपत्नीमुपासीनो विपुलः स महातपाः ।उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् ॥ ५५ ॥
नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः ।विवेश विपुलः कायमाकाशं पवनो यथा ॥ ५६ ॥
लक्षणं लक्षणेनैव वदनं वदनेन च ।अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ॥ ५७ ॥
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् ।उवास रक्षणे युक्तो न च सा तमबुध्यत ॥ ५८ ॥
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः ।क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥ ५९ ॥
« »