Click on words to see what they mean.

भीष्म उवाच ।श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा ।ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च ॥ १ ॥
भरतस्यान्वये चैवाजमीढो नाम पार्थिवः ।बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः ॥ २ ॥
तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः ।दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥ ३ ॥
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः ।सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥ ४ ॥
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः ।कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥ ५ ॥
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः ।अपुत्रः स महाबाहुर्वनवासमुदावसत् ॥ ६ ॥
कन्या जज्ञे सुता तस्य वने निवसतः सतः ।नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥ ७ ॥
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः ।ऋचीक इति विख्यातो विपुले तपसि स्थितः ॥ ८ ॥
स तां न प्रददौ तस्मै ऋचीकाय महात्मने ।दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥ ९ ॥
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः ।शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् ॥ १० ॥
ऋचीक उवाच ।किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप ।दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा ॥ ११ ॥
गाधिरुवाच ।चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् ।एकतः श्यामकर्णानां सहस्रं देहि भार्गव ॥ १२ ॥
भीष्म उवाच ।ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः ।अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥ १३ ॥
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥ १४ ॥
तथेति वरुणो देव आदित्यो भृगुसत्तमम् ।उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः ॥ १५ ॥
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् ।गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥ १६ ॥
अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् ।अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ॥ १७ ॥
तत्तदा गाधये तात सहस्रं वाजिनां शुभम् ।ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः ॥ १८ ॥
ततः स विस्मितो राजा गाधिः शापभयेन च ।ददौ तां समलंकृत्य कन्यां भृगुसुताय वै ॥ १९ ॥
जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः ।सा च तं पतिमासाद्य परं हर्षमवाप ह ॥ २० ॥
स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत ।छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥ २१ ॥
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् ।अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखीम् ॥ २२ ॥
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति ।अपत्यस्य प्रदानेन समर्थः स महातपाः ॥ २३ ॥
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् ।मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत् ॥ २४ ॥
गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः ।जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ॥ २५ ॥
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे ।अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ॥ २६ ॥
ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् ।परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः ॥ २७ ॥
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते ।त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः ॥ २८ ॥
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत ।यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥ २९ ॥
तामुवाच ततो माता सुतां सत्यवतीं तदा ।पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम ॥ ३० ॥
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः ।एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥ ३१ ॥
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते ।यदि प्रमाणं वचनं मम मातुरनिन्दिते ॥ ३२ ॥
व्यक्तं भगवता चात्र कृतमेवं भविष्यति ।ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे ।कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय ॥ ३३ ॥
तथा च कृतवत्यौ ते माता सत्यवती च सा ।अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ॥ ३४ ॥
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः ।उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ॥ ३५ ॥
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति ।व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥ ३६ ॥
मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम् ।क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ॥ ३७ ॥
त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि ।सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥ ३८ ॥
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च ।तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति ॥ ३९ ॥
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि ।न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ॥ ४० ॥
सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी ।भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता ॥ ४१ ॥
प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च ।उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् ॥ ४२ ॥
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर ।प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः ॥ ४३ ॥
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति ।न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ॥ ४४ ॥
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः ।ततः सा जनयामास जमदग्निं सुतं शुभम् ॥ ४५ ॥
विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी ।ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् ॥ ४६ ॥
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः ।क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ॥ ४७ ॥
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः ।तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ॥ ४८ ॥
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् ।अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥ ४९ ॥
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः ।उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥ ५० ॥
कर्णजङ्घश्च भगवान्गालवश्च महानृषिः ।ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च ॥ ५१ ॥
लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः ।वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च ॥ ५२ ॥
अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः ।चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥ ५३ ॥
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा ।कारीषिरथ संश्रुत्यः परपौरवतन्तवः ॥ ५४ ॥
महानृषिश्च कपिलस्तथर्षिस्तारकायनः ।तथैव चोपगहनस्तथर्षिश्चार्जुनायनः ॥ ५५ ॥
मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः ।सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि ॥ ५६ ॥
आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा ।नवतन्तुर्बकनखः शयोनरतिरेव च ॥ ५७ ॥
शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः ।उज्जयोनिरदापेक्षी नारदी च महानृषिः ।विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ॥ ५८ ॥
तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः ।ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ॥ ५९ ॥
एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ ।विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ॥ ६० ॥
यत्र यत्र च संदेहो भूयस्ते राजसत्तम ।तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् ॥ ६१ ॥
« »