Click on words to see what they mean.

युधिष्ठिर उवाच ।श्राद्धकाले च दैवे च धर्मे चापि पितामह ।इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः ॥ १ ॥
भीष्म उवाच ।दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् ।मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान् ॥ २ ॥
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः ।कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ॥ ३ ॥
लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम् ।रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः ॥ ४ ॥
अवघुष्टं च यद्भुक्तमव्रतेन च भारत ।परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥ ५ ॥
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् ।रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥ ६ ॥
निरोंकारेण यद्भुक्तं सशस्त्रेण च भारत ।दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः ॥ ७ ॥
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् ।दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥ ८ ॥
गर्हितं निन्दितं चैव परिविष्टं समन्युना ।दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः ॥ ९ ॥
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते ।त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ॥ १० ॥
आज्याहुतिं विना चैव यत्किंचित्परिविष्यते ।दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ॥ ११ ॥
ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ ।अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥ १२ ॥
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च ।दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् ॥ १३ ॥
श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः ।अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् ॥ १४ ॥
चिकित्सका देवलका वृथानियमधारिणः ।सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ॥ १५ ॥
गायना नर्तकाश्चैव प्लवका वादकास्तथा ।कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥ १६ ॥
होतारो वृषलानां च वृषलाध्यापकास्तथा ।तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ॥ १७ ॥
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत ।नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ॥ १८ ॥
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः ।ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् ॥ १९ ॥
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये ।स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ॥ २० ॥
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत ।पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ॥ २१ ॥
ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः ।प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ॥ २२ ॥
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ ।अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥ २३ ॥
श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ ।दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ॥ २४ ॥
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः ।सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ॥ २५ ॥
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् ।न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् ॥ २६ ॥
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् ।अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ॥ २७ ॥
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ ।भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ॥ २८ ॥
उदितास्तमितो यश्च तथैवास्तमितोदितः ।अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ॥ २९ ॥
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ ।ससंज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ॥ ३० ॥
अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् ।पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः ॥ ३१ ॥
अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः ।भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ॥ ३२ ॥
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् ।अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम् ॥ ३३ ॥
क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ ।न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् ॥ ३४ ॥
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा ।सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ॥ ३५ ॥
श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् ।क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति ॥ ३६ ॥
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत ।अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ॥ ३७ ॥
पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।एतदेव निरोंकारं क्षत्रियस्य विधीयते ।वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति ॥ ३८ ॥
कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु ।जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत ।ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ॥ ३९ ॥
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी ।बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर ॥ ४० ॥
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु ।ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः ।चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥ ४१ ॥
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः ।यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि ॥ ४२ ॥
अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः ।यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् ॥ ४३ ॥
दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु ।अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् ॥ ४४ ॥
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु ।ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ॥ ४५ ॥
अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत ।आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ॥ ४६ ॥
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर ।मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् ॥ ४७ ॥
युधिष्ठिर उवाच ।पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह ।एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् ॥ ४८ ॥
भीष्म उवाच ।येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः ।उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ॥ ४९ ॥
चारित्रनियता राजन्ये कृशाः कृशवृत्तयः ।अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥ ५० ॥
तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः ।अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥ ५१ ॥
तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर ।अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ॥ ५२ ॥
अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः ।बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥ ५३ ॥
हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे ।अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥ ५४ ॥
व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः ।तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् ॥ ५५ ॥
अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च ।कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम् ॥ ५६ ॥
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः ।स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् ॥ ५७ ॥
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये ।अर्थिनः किंचिदिच्छन्ति तेषु दत्तं महाफलम् ॥ ५८ ॥
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ ।निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु ॥ ५९ ॥
गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर ।येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ॥ ६० ॥
परदाराभिहर्तारः परदाराभिमर्शिनः ।परदारप्रयोक्तारस्ते वै निरयगामिनः ॥ ६१ ॥
ये परस्वापहर्तारः परस्वानां च नाशकाः ।सूचकाश्च परेषां ये ते वै निरयगामिनः ॥ ६२ ॥
प्रपाणां च सभानां च संक्रमाणां च भारत ।अगाराणां च भेत्तारो नरा निरयगामिनः ॥ ६३ ॥
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् ।वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥ ६४ ॥
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत ।मित्रच्छेदं तथाशायास्ते वै निरयगामिनः ॥ ६५ ॥
सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः ।अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ ६६ ॥
पाषण्डा दूषकाश्चैव समयानां च दूषकाः ।ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥ ६७ ॥
कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् ।भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ ६८ ॥
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा ।उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥ ६९ ॥
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः ।वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥ ७० ॥
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः ।विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥ ७१ ॥
केशविक्रयिका राजन्विषविक्रयिकाश्च ये ।क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥ ७२ ॥
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर ।येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः ॥ ७३ ॥
शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर ।शल्यानां धनुषां चैव ते वै निरयगामिनः ॥ ७४ ॥
शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ ।ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥ ७५ ॥
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ ।ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः ॥ ७६ ॥
अप्राप्तदमकाश्चैव नासानां वेधकास्तथा ।बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥ ७७ ॥
अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः ।समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥ ७८ ॥
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् ।त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ ७९ ॥
बालानामथ वृद्धानां दासानां चैव ये नराः ।अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥ ८० ॥
एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः ।भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥ ८१ ॥
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत ।हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥ ८२ ॥
दानेन तपसा चैव सत्येन च युधिष्ठिर ।ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ ८३ ॥
शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत ।ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥ ८४ ॥
भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात् ।यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥ ८५ ॥
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः ।मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः ॥ ८६ ॥
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च ।निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥ ८७ ॥
आश्रमाणां च कर्तारः कुलानां चैव भारत ।देशानां नगराणां च ते नराः स्वर्गगामिनः ॥ ८८ ॥
वस्त्राभरणदातारो भक्षपानान्नदास्तथा ।कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः ॥ ८९ ॥
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये ।सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ ९० ॥
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः ।भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥ ९१ ॥
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत ।ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ ९२ ॥
अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः ।आराधनसुखाश्चापि ते नराः स्वर्गगामिनः ॥ ९३ ॥
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः ।त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः ॥ ९४ ॥
सुवर्णस्य च दातारो गवां च भरतर्षभ ।यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥ ९५ ॥
वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर ।दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥ ९६ ॥
विहारावसथोद्यानकूपारामसभाप्रदाः ।वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥ ९७ ॥
निवेशनानां क्षेत्राणां वसतीनां च भारत ।दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥ ९८ ॥
रसानामथ बीजानां धान्यानां च युधिष्ठिर ।स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥ ९९ ॥
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः ।सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥ १०० ॥
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत ।धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ ॥ १०१ ॥
« »