Click on words to see what they mean.

युधिष्ठिर उवाच ।किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् ।ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् ॥ १ ॥
भीष्म उवाच ।स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा ।देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥ २ ॥
युधिष्ठिर उवाच ।श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये ।हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥ ३ ॥
भीष्म उवाच ।श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः ।पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ॥ ४ ॥
युधिष्ठिर उवाच ।न ब्राह्मणं परीक्षेत दैवेषु सततं नरः ।कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥ ५ ॥
भीष्म उवाच ।न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति ।देवप्रसादादिज्यन्ते यजमाना न संशयः ॥ ६ ॥
ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः ।मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् ॥ ७ ॥
युधिष्ठिर उवाच ।अपूर्वोऽप्यथ वा विद्वान्संबन्धी वाथ यो भवेत् ।तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥ ८ ॥
भीष्म उवाच ।कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् ।ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः ॥ ९ ॥
तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् ।पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥ १० ॥
पृथिव्युवाच ।यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति ।तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति ॥ ११ ॥
काश्यप उवाच ।सर्वे च वेदाः सह षड्भिरङ्गैः सांख्यं पुराणं च कुले च जन्म ।नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नरस्य राजन् ॥ १२ ॥
अग्निरुवाच ।अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् ।ब्रह्मन्स तेनाचरते ब्रह्महत्यां लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥ १३ ॥
मार्कण्डेय उवाच ।अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥ १४ ॥
भीष्म उवाच ।इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः ।पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥ १५ ॥
युधिष्ठिर उवाच ।यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः ।भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥ १६ ॥
भीष्म उवाच ।आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः ।भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥ १७ ॥
युधिष्ठिर उवाच ।अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः ।किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह ॥ १८ ॥
भीष्म उवाच ।अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा ।आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ १९ ॥
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् ।अनाचरन्तस्तद्धर्मं संकरे निरताः प्रभो ॥ २० ॥
तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः ।दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः ॥ २१ ॥
मेदानां पुल्कसानां च तथैवान्तावसायिनाम् ।कृतं कर्माकृतं चापि रागमोहेन जल्पताम् ॥ २२ ॥
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे ।ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ॥ २३ ॥
युधिष्ठिर उवाच ।किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् ।किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥ २४ ॥
भीष्म उवाच ।ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् ।मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥ २५ ॥
युधिष्ठिर उवाच ।कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत् ।कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥ २६ ॥
भीष्म उवाच ।काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् ।पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥ २७ ॥
ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत् ।सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥ २८ ॥
अधिकारे यदनृतं राजगामि च पैशुनम् ।गुरोश्चालीककरणं समं तद्ब्रह्महत्यया ॥ २९ ॥
प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च ।भ्रूणहत्यासमं चैतदुभयं यो निषेवते ॥ ३० ॥
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् ।न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥ ३१ ॥
युधिष्ठिर उवाच ।कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् ।कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥ ३२ ॥
भीष्म उवाच ।अक्रोधना धर्मपराः सत्यनित्या दमे रताः ।तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥ ३३ ॥
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः ।सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥ ३४ ॥
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः ।स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥ ३५ ॥
साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः ।षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥ ३६ ॥
ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम् ।सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ॥ ३७ ॥
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः ।तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः ॥ ३८ ॥
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् ।द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥ ३९ ॥
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः ।किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् ॥ ४० ॥
निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् ।दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत् ॥ ४१ ॥
« »