Click on words to see what they mean.

भीष्म उवाच ।अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति ।तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥ १ ॥
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना ।अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ॥ २ ॥
शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् ।भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ॥ ३ ॥
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा ।स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ।दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥ ४ ॥
स तेन सुसुखोष्णेन तस्या हस्तसुखेन च ।व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥ ५ ॥
तत उत्थाय स मुनिस्तदा परमविस्मितः ।पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥ ६ ॥
तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् ।अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ॥ ७ ॥
सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् ।तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः ।व्यगमच्चाप्यहःशेषं ततः संध्यागमत्पुनः ॥ ८ ॥
अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् ।तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥ ९ ॥
अष्टावक्र उवाच ।न भद्रे परदारेषु मनो मे संप्रसज्जति ।उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ॥ १० ॥
भीष्म उवाच ।सा तदा तेन विप्रेण तथा धृत्या निवर्तिता ।स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ॥ ११ ॥
अष्टावक्र उवाच ।नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः ।प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥ १२ ॥
स्त्र्युवाच ।बाधते मैथुनं विप्र मम भक्तिं च पश्य वै ।अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥ १३ ॥
अष्टावक्र उवाच ।हरन्ति दोषजातानि नरं जातं यथेच्छकम् ।प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज ॥ १४ ॥
स्त्र्युवाच ।शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि ।भूमौ निपतमानायाः शरणं भव मेऽनघ ॥ १५ ॥
यदि वा दोषजातं त्वं परदारेषु पश्यसि ।आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥ १६ ॥
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् ।स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि ॥ १७ ॥
अष्टावक्र उवाच ।स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै ।नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ॥ १८ ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥ १९ ॥
स्त्र्युवाच ।कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः ।कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम ॥ २० ॥
अष्टावक्र उवाच ।यथा मम तथा तुभ्यं यथा तव तथा मम ।जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥ २१ ॥
आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् ।दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥ २२ ॥
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः ।कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ॥ २३ ॥
यथा परं शक्तिधृतेर्न व्युत्थास्ये कथंचन ।न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ॥ २४ ॥
« »