Click on words to see what they mean.

अष्टावक्र उवाच ।तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम् ।यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥ १ ॥
भीष्म उवाच ।ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम् ।हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥ २ ॥
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् ।अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम् ॥ ३ ॥
अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः ।तत्र वासाय शयने कौश्ये सुखमुवास ह ॥ ४ ॥
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः ।स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः ॥ ५ ॥
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् ।विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥ ६ ॥
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया ।मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥ ७ ॥
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् ।प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः ॥ ८ ॥
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् ।निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥ ९ ॥
ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन् ।असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥ १० ॥
विदितो भगवानस्य कार्यमागमने च यत् ।पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥ ११ ॥
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् ।विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥ १२ ॥
सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि ।ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज ॥ १३ ॥
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम ।सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥ १४ ॥
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् ।आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥ १५ ॥
अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः ।निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः ॥ १६ ॥
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् ।भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥ १७ ॥
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा ।संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥ १८ ॥
अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा ।अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः ॥ १९ ॥
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा ।विद्युता प्रशमा दान्ता विद्योता रतिरेव च ॥ २० ॥
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ।अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥ २१ ॥
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत् ।दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः ॥ २२ ॥
ततो वैश्रवणो राजा भगवन्तमुवाच ह ।साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः ॥ २३ ॥
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः ।छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥ २४ ॥
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् ।सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥ २५ ॥
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत ।अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर ॥ २६ ॥
प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप ।तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ।नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव ॥ २७ ॥
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः ।कैलासं मन्दरं हैमं सर्वाननुचचार ह ॥ २८ ॥
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् ।प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् ।धरणीमवतीर्याथ पूतात्मासौ तदाभवत् ॥ २९ ॥
स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः ।समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥ ३० ॥
ततोऽपरं वनोद्देशं रमणीयमपश्यत ।सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् ।रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् ॥ ३१ ॥
तत्राश्रमपदं दिव्यं ददर्श भगवानथ ।शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ।मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥ ३२ ॥
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ ।भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः ॥ ३३ ॥
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् ।ददर्शाद्भुतसंकाशं धनदस्य गृहाद्वरम् ॥ ३४ ॥
महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः ।विमानानि च रम्याणि रत्नानि विविधानि च ॥ ३५ ॥
मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी ।स्वयंप्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥ ३६ ॥
नानाविधैश्च भवनैर्विचित्रमणितोरणैः ।मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः ।मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ॥ ३७ ॥
ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम् ।ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति ॥ ३८ ॥
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् ।अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै ॥ ३९ ॥
अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः ।नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥ ४० ॥
यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत् ।नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति ॥ ४१ ॥
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः ।अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति ॥ ४२ ॥
स च तासां सुरूपाणां तस्यैव भवनस्य च ।कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः ॥ ४३ ॥
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् ।वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥ ४४ ॥
स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा ।प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥ ४५ ॥
अष्टावक्र उवाच ।सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु ।सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः ॥ ४६ ॥
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा ।निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत ॥ ४७ ॥
अथ तां संविशन्प्राह शयने भास्वरे तदा ।त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥ ४८ ॥
संलापात्तेन विप्रेण तथा सा तत्र भाषिता ।द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥ ४९ ॥
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा ।व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत ॥ ५० ॥
स्वागतं स्वागतेनास्तु भगवांस्तामभाषत ।सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥ ५१ ॥
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा ।दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह ॥ ५२ ॥
ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः ।कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ॥ ५३ ॥
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह ।उपगूह च मां विप्र कामार्ताहं भृशं त्वयि ॥ ५४ ॥
एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम् ।प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ॥ ५५ ॥
सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि ।प्रभुत्वं तव सर्वत्र मयि चैव न संशयः ॥ ५६ ॥
सर्वान्कामान्विधास्यामि रमस्व सहितो मया ।रमणीये वने विप्र सर्वकामफलप्रदे ॥ ५७ ॥
त्वद्वशाहं भविष्यामि रंस्यसे च मया सह ।सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः ॥ ५८ ॥
नातः परं हि नारीणां कार्यं किंचन विद्यते ।यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥ ५९ ॥
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ ६० ॥
अष्टावक्र उवाच ।परदारानहं भद्रे न गच्छेयं कथंचन ।दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ ६१ ॥
भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे ।विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः ॥ ६२ ॥
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः ।भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह ॥ ६३ ॥
स्त्र्युवाच ।नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज ।प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥ ६४ ॥
सहस्रैका यता नारी प्राप्नोतीह कदाचन ।तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥ ६५ ॥
नैता जानन्ति पितरं न कुलं न च मातरम् ।न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् ॥ ६६ ॥
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ।दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत ॥ ६७ ॥
भीष्म उवाच ।ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत ।आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे ॥ ६८ ॥
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः ।वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि ॥ ६९ ॥
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर ।वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥ ७० ॥
अथर्षिरभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम् ।चिन्तां परमिकां भेजे संतप्त इव चाभवत् ॥ ७१ ॥
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा ।नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता ॥ ७२ ॥
देवतेयं गृहस्यास्य शापान्नूनं विरूपिता ।अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया ॥ ७३ ॥
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः ।व्यगमत्तदहःशेषं मनसा व्याकुलेन तु ॥ ७४ ॥
अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः ।रूपं संध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव ॥ ७५ ॥
स उवाच तदा तां स्त्रीं स्नानोदकमिहानय ।उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः ॥ ७६ ॥
« »