Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्त्वा कुरून्सर्वान्भीष्मः शांतनवस्तदा ।तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ॥ १ ॥
धारयामास चात्मानं धारणासु यथाक्रमम् ।तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः ॥ २ ॥
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् ।यद्यन्मुञ्चति गात्राणां स शंतनुसुतस्तदा ।तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ॥ ३ ॥
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा ।तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ।सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥ ४ ॥
संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै ।जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च ॥ ५ ॥
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप ।निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत ॥ ६ ॥
एवं स नृपशार्दूल नृपः शांतनवस्तदा ।समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ॥ ७ ॥
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् ।चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा ।युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ॥ ८ ॥
युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः ।छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ॥ ९ ॥
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् ।चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ ।उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ॥ १० ॥
स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् ।तालवृन्तान्युपादाय पर्यवीजन्समन्ततः ॥ ११ ॥
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः ।याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः ॥ १२ ॥
ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि ।कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ॥ १३ ॥
समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् ।अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः ॥ १४ ॥
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः ।जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ॥ १५ ॥
अनुगम्यमाना व्यासेन नारदेनासितेन च ।कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ॥ १६ ॥
उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः ।विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥ १७ ॥
ततो भागीरथी देवी तनयस्योदके कृते ।उत्थाय सलिलात्तस्माद्रुदती शोकलालसा ॥ १८ ॥
परिदेवयती तत्र कौरवानभ्यभाषत ।निबोधत यथावृत्तमुच्यमानं मयानघाः ॥ १९ ॥
राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन च ।सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥ २० ॥
जामदग्न्येन रामेण पुरा यो न पराजितः ।दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥ २१ ॥
अश्मसारमयं नूनं हृदयं मम पार्थिवाः ।अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै ॥ २२ ॥
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे ।विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह ॥ २३ ॥
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन ।हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥ २४ ॥
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना ।पीडितो नातियत्नेन निहतः स शिखण्डिना ॥ २५ ॥
एवंविधं बहु तदा विलपन्तीं महानदीम् ।आश्वासयामास तदा साम्ना दामोदरो विभुः ॥ २६ ॥
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने ।गतः स परमां सिद्धिं तव पुत्रो न संशयः ॥ २७ ॥
वसुरेष महातेजाः शापदोषेण शोभने ।मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ॥ २८ ॥
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे ।धनंजयेन निहतो नैष नुन्नः शिखण्डिना ॥ २९ ॥
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे ।न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥ ३० ॥
स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने ।न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः ॥ ३१ ॥
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् ।वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥ ३२ ॥
इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा ।त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥ ३३ ॥
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः ।अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥ ३४ ॥
« »