Click on words to see what they mean.

वैशंपायन उवाच ।ततः कुन्तीसुतो राजा पौरजानपदं जनम् ।पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥ १ ॥
सान्त्वयामास नारीश्च हतवीरा हतेश्वराः ।विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः ॥ २ ॥
सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः ।अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा ॥ ३ ॥
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः ।प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः ॥ ४ ॥
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे ।समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥ ५ ॥
स निर्ययौ गजपुराद्याजकैः परिवारितः ।दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥ ६ ॥
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः ।चन्दनागरुमुख्यानि तथा कालागरूणि च ॥ ७ ॥
प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै ।माल्यानि च महार्हाणि रत्नानि विविधानि च ॥ ८ ॥
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् ।मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः ॥ ९ ॥
जनार्दनेनानुगतो विदुरेण च धीमता ।युयुत्सुना च कौरव्यो युयुधानेन चाभिभो ॥ १० ॥
महता राजभोग्येन परिबर्हेण संवृतः ।स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन् ॥ ११ ॥
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा ।आससाद कुरुक्षेत्रे ततः शांतनवं नृपम् ॥ १२ ॥
उपास्यमानं व्यासेन पाराशर्येण धीमता ।नारदेन च राजर्षे देवलेनासितेन च ॥ १३ ॥
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः ।रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥ १४ ॥
शयानं वीरशयने ददर्श नृपतिस्ततः ।ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् ॥ १५ ॥
अभिवाद्याथ कौन्तेयः पितामहमरिंदमम् ।द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥ १६ ॥
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः ।आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥ १७ ॥
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः ।भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् ॥ १८ ॥
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत ।शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥ १९ ॥
प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो ।आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे ॥ २० ॥
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः ।उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥ २१ ॥
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः ।तान्पश्य कुरुशार्दूल समुन्मीलय लोचने ॥ २२ ॥
यच्चेह किंचित्कर्तव्यं तत्सर्वं प्रापितं मया ।यथोक्तं भवता काले सर्वमेव च तत्कृतम् ॥ २३ ॥
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता ।ददर्श भारतान्सर्वान्स्थितान्संपरिवार्य तम् ॥ २४ ॥
ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् ।ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् ॥ २५ ॥
दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर ।परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ॥ २६ ॥
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः ।शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥ २७ ॥
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर ।त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥ २८ ॥
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् ।धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥ २९ ॥
राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः ।बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ ३० ॥
वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर ।वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे ॥ ३१ ॥
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा ।श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥ ३२ ॥
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः ।तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥ ३३ ॥
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव ।आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥ ३४ ॥
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः ।ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥ ३५ ॥
वैशंपायन उवाच ।एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् ।वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥ ३६ ॥
भगवन्देवदेवेश सुरासुरनमस्कृत ।त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर ॥ ३७ ॥
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम ।रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम् ॥ ३८ ॥
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा ।यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ ३९ ॥
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ।संधानस्य परः कालस्तवेति च पुनः पुनः ॥ ४० ॥
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः ।घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ ४१ ॥
त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम् ।नरेण सहितं देवं बदर्यां सुचिरोषितम् ॥ ४२ ॥
तथा मे नारदः प्राह व्यासश्च सुमहातपाः ।नरनारायणावेतौ संभूतौ मनुजेष्विति ॥ ४३ ॥
वासुदेव उवाच ।अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव ।न तेऽस्ति वृजिनं किंचिन्मया दृष्टं महाद्युते ॥ ४४ ॥
पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः ।तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥ ४५ ॥
वैशंपायन उवाच ।एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् ।धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा ॥ ४६ ॥
प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ ।सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् ॥ ४७ ॥
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः ।ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत ॥ ४८ ॥
इत्युक्त्वा सुहृदः सर्वान्संपरिष्वज्य चैव ह ।पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ॥ ४९ ॥
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः ।आचार्या ऋत्विजश्चैव पूजनीया नराधिप ॥ ५० ॥
« »