Click on words to see what they mean.

भीष्म उवाच ।तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः ।शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥ १ ॥
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः ।तदेयं च्यवनेनेह हृता तेषां वसुंधरा ॥ २ ॥
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् ।शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ॥ ३ ॥
देवा ऊचुः ।मदास्यव्यतिषिक्तानामस्माकं लोकपूजित ।च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ॥ ४ ॥
ब्रह्मोवाच ।गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः ।प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ॥ ५ ॥
ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे ।इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ।भूगतान्हि विजेतारो वयमित्येव पार्थिव ॥ ६ ॥
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् ।तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ॥ ७ ॥
स च तान्ब्राह्मणानाह धनी कपवचो यथा ।भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ॥ ८ ॥
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः ।सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ॥ ९ ॥
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते ।वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ॥ १० ॥
दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः ।सर्वे च नियतात्मानो बालानां संविभागिनः ॥ ११ ॥
उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् ।अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ॥ १२ ॥
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् ।विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः ॥ १३ ॥
ब्राह्मणा ऊचुः ।कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः ।तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ॥ १४ ॥
धनी गत्वा कपानाह न वो विप्राः प्रियंकराः ।गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् ॥ १५ ॥
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः ।व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥ १६ ॥
ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः ।नभसीव यथाभ्राणि व्यराजन्त नराधिप ।प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् ॥ १७ ॥
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः ।अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥ १८ ॥
इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत ।प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥ १९ ॥
जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो ।ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥ २० ॥
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः ।लोके च परमा कीर्तिर्धर्मश्च चरितो महान् ॥ २१ ॥
अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः ।त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह ॥ २२ ॥
वायुरुवाच ।ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च ।भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥ २३ ॥
« »