Click on words to see what they mean.

भीष्म उवाच ।इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् ।शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥ १ ॥
घोरे तमस्ययुध्यन्त सहिता देवदानवाः ।अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥ २ ॥
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः ।देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥ ३ ॥
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः ।अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने ॥ ४ ॥
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् ।असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥ ५ ॥
वयं वध्यामहे चापि शत्रुभिस्तमसावृते ।नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ॥ ६ ॥
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव ।तिमिरघ्नश्च सविता दस्युहा चैव नो भव ॥ ७ ॥
एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी ।अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् ॥ ८ ॥
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव ।प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥ ९ ॥
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा ।व्यजयच्छत्रुसंघांश्च देवानां स्वेन तेजसा ॥ १० ॥
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् ।पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः ॥ ११ ॥
उद्भासितश्च सविता देवास्त्राता हतासुराः ।अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ॥ १२ ॥
अद्वितीयेन मुनिना जपता चर्मवाससा ।फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ॥ १३ ॥
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः ।ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥ १४ ॥
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् ।शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ॥ १५ ॥
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् ।प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु ॥ १६ ॥
इन्द्र उवाच ।अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् ।देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ॥ १७ ॥
अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत ।पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥ १८ ॥
च्यवन उवाच ।न चेत्करिष्यसि वचो मयोक्तं बलसूदन ।मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥ १९ ॥
ततः कर्म समारब्धं हिताय सहसाश्विनोः ।च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् ॥ २० ॥
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः ।उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ।तथा वज्रेण भगवानमर्षाकुललोचनः ॥ २१ ॥
तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः ।अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम् ॥ २२ ॥
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह ।मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः ॥ २३ ॥
तस्य दन्तसहस्रं तु बभूव शतयोजनम् ।द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ।हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् ॥ २४ ॥
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः ।तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥ २५ ॥
ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा ।अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ।अश्विभ्यां सह सोमं च पिबामो विगतज्वराः ॥ २६ ॥
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् ।च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ ॥ २७ ॥
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः ।अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ॥ २८ ॥
एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः ।तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ॥ २९ ॥
एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् ।ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् ॥ ३० ॥
« »