Click on words to see what they mean.

भीष्म उवाच ।इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह ॥ १ ॥
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः ।यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा ॥ २ ॥
कर्मेज्या मानवानां च दानवैर्हैहयर्षभ ।भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥ ३ ॥
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् ।ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् ॥ ४ ॥
अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् ।इदमूचुर्महात्मानं वाक्यं काले जनाधिप ॥ ५ ॥
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः ।तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुंगव ॥ ६ ॥
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् ।प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये ॥ ७ ॥
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा ।अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः ॥ ८ ॥
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा ।उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् ॥ ९ ॥
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः ।येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः ॥ १० ॥
ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः ।अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि ॥ ११ ॥
इत्युक्त आह देवान्स न शक्नोमि महीगतान् ।दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव ॥ १२ ॥
एवं दग्धा भगवता दानवाः स्वेन तेजसा ।अगस्त्येन तदा राजंस्तपसा भावितात्मना ॥ १३ ॥
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ ।ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥ १४ ॥
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥ १५ ॥
आदित्याः सत्रमासन्त सरो वै मानसं प्रति ।वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् ॥ १६ ॥
यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान् ।हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः ॥ १७ ॥
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः ।हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः ॥ १८ ॥
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् ।विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् ॥ १९ ॥
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह ।ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥ २० ॥
स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ ।ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥ २१ ॥
तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः ।अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा ॥ २२ ॥
कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः ।आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥ २३ ॥
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् ।हताश्च खलिनो यत्र स देशः खलिनोऽभवत् ॥ २४ ॥
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः ।ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥ २५ ॥
एतत्कर्म वसिष्ठस्य कथितं ते मयानघ ।ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥ २६ ॥
« »